________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
क्रिया-कलापे
३-चारित्रभक्तिः।
श्रुतं स्तुत्वा पंचधाचारं स्तुवन् येनेन्द्रानित्याद्याह-- येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान
भास्वन्मौलिमणिप्रभाप्रविसरोत्तुंगोत्तुंमाङ्गानतान् । स्वेषां पादपयोरुहेषु मुनयश्चक्रुः प्रकामं सदा
वन्दे पंचतयं तमद्य निगदन्नाचारमभ्यर्चितम् ॥११॥ टीका-येनाचारेण नतान् चक्रुरिति संबंधः । कान् ? इन्द्रान् । स्वामिनः । कस्य ? भुवनत्रयस्य । किंविशिष्टानित्याह विलसदित्यादिकेयूराणि च हाराश्च अंगदानि च विलसन्तः कमनीयाः केयूरहारांगदा येषां ते तथोक्तास्तान । पुनरपि कथम्भूतांस्तानित्याह भास्वदित्यादिभास्वंतः शोभमाना मौलयो मुकुटानि तेषु मणयो रत्नानि तेषां प्रभास्तासां प्रविसरः सर्वतः प्रसर्पणं तेन उत्तुंगमुन्नतं उत्तमाङ्ग मस्तकं येषां ते तथोक्तास्तान् । किंविशिष्टान् चक्रुर्विदधुर्नतान्-प्रणतान् । प्रकाममत्यर्थं । के ते ? मुनयः । क ? पादपयोरुहेषु-पादावेव पयोरुहाणि सरोजानि तेषु । केषां पादपयोरहेषु ? स्वेषां-आत्मीयानां, सदा-सर्वकालं । तमाचारं वंदे-स्तुवे अहं । कथंभूतं ? पंचतयं-ज्ञानाचारादिपंचावयवं । अथ श्रुतस्तवनानंतरकाले किं कुर्वन् ? निगदन्-ब्रुवन् । कं ? प्राचारं कथम्भूतं ? अभ्यर्हितं-पूजितम् ॥ १॥
तत्र ज्ञानाचाररूपं तावदाचारं निगदितुकामः अर्थत्याचाहअर्थव्यंजनतद्वयाविकलताकालोपधाप्रश्रयाः
स्वाचार्याधनपदयो बहुमतिश्चेत्यष्टधा व्याहृतम् । श्रीमजातिकुलेन्दुना भगवता तीर्थस्य काऽजसा
ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धृतये कर्मणाम् ॥२॥
For Private And Personal Use Only