________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृत-श्रुतभक्तिः ।
वस्तुनि विंशतिविंशतिप्राभूतानि भवंति तानि सर्वाणि पिंडितानि नवशतीत्रिसहस्रीसंख्यानि भवंति ३६०० ॥ ७-१०॥ अधुना यदीयं श्रुतं स्तुतं तानेवमयेत्यादिना स्तुतेः फलं याचतेएवमए मुदपवरा भत्तीराएण संथुया तच्चा । सिग्धं मे सुदला जिणवरवसहा पयच्छंतु ॥ ११ ॥. एवं मया श्रुतप्रवराः भक्तिरागाभ्यां संस्तुतास्तत्त्वतः। शीघ्रं मे श्रुतलाभं जिनवरवृषभाः प्रयच्छन्तु ॥ ११ ॥
टीका-एवमुक्तप्रकारेण मए-मया । संथुया-संस्तुताः। जिणवरवसहा-जिना देशजिनाः तेषां वराः श्रेष्ठाः गणधरदेवास्तेषां वृषभाः प्रधा. नास्तीर्थकरदेवा इत्यर्थः । कथंभूताः ? सुदपवरा-श्रुतं द्वादशांगादिलक्षणं प्रवरं श्रेष्ठं येषां ते तथोक्ताः। कथं संस्तुताः ? भत्तीराएण-भक्त्यनुरामाभ्यां श्रद्धाप्रीतिभ्यां इत्यर्थः । पुनरपि कथं संस्तुताः ? तच्चा-तत्त्वतः परमार्थेन न व्यवहारेण मायया वेत्यर्थः। ते तथा संस्तुताः संतः सिग्धं मे सुदलाह-शीघ्रं मम श्रुतलाभं । पयच्छंतु-प्रयच्छन्तु। द्वादशांगादिश्रुत. लाभे कंवलज्ञानप्राप्तेः सामर्थ्यसिद्धत्वात् सामर्थ्यात्तत्सिद्धिः प्रार्थिता भवति ॥११॥
अंचलिकाइच्छामि भंते ! सुदभत्तिकाउस्सग्गो को तस्स आलोचेउ अंगोनंगपइण्णए पाहुडयपरियम्मसुत्तपढमाणिओगपुव्वगयचूलिया चेव मुत्तत्थयथुइधम्मकहाइयं णिचकालं अंचेमि, पूजेभि, वदामि णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो मुगइगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
For Private And Personal Use Only