________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
क्रियाकलापेwwwmamma असहायं अभेदं वा । पुनरपि कथंभूतं ? अनंतं-न विद्यतेऽन्तो विनाशो. ऽस्येत्यनन्तं । त्रिकालसर्वार्थयुगपदवभासं-सव च ते अर्थाश्च सर्वार्थाः त्रयः कालाभूतभविष्यद्वर्तमानलक्षणा येषां ते त्रिकालाःते च ते सर्वार्थाश्च तेषां युगपदवभासो यत्र करणक्रमव्यवधानातिवर्तित्वात् , तत्तथोक्तम् । सकलसुखधाम--सकलसुखं अनंतसुखं तस्य धाम स्थानं, तस्मिन्सत्यवश्यं तत्संभवात् ।।२६॥
स्तुतेः फलं प्रार्थयमान एवमित्याद्याहएवमभिष्टुवतो मे ज्ञानानि समस्तलोकचक्षुषि । लघु भवताज्ज्ञानदि ज्ञानफलं सौख्यमच्यवनम् ॥३०॥
टीका--एवमनंतरोक्तप्रकारेण । अभिष्टुवतो मेलघुशीघ्रं । भवतासंपद्यतां । किं? सौख्यं । किंविशिष्ट ? अच्यवनं--न विद्यते च्यवन विना. शोऽस्येति । पुनरपि किंविशिष्ट ? ज्ञानफलं-अनेन अतींद्रियत्वं तस्य दर्शितं, सग्वनितादिविषयादनुत्पत्तेः। पुनरपि कथम्भूतं ? ज्ञानद्धि--ज्ञानस्य ऋद्धिः परमप्रकर्षों यत्र। अनंतज्ञानसमन्वितं अनंतसौख्यं अंतर्भूतानंतदर्शनवीर्य मे भूयादित्यर्थः । किंविशिष्टानि ज्ञानानि अभिष्टुवत इत्याह-समस्तलोकचक्षूषि ॥ ३०॥
प्राकृत-श्रुतभक्तिः।
सिद्धवरसासणाणं सिद्धार्ण कम्मचक्कमुक्काणं । काऊण णमुक्कारं भत्तीए णमामि अंगाई ॥१॥ सिद्धवरशासनानां सिद्धानां कर्मचक्रमुक्तानां । कृत्वा नमस्कारं भक्त्या नमाम्यंगानि ॥ १॥
टीका-काऊण--कृत्वा । किं ? णमुक्कार-नमस्कारं। केषां ? सिद्धा. णं-सिद्धानां । कथंभूतानां ? सिद्धवरसासणाणं-सिद्ध सकललोकप्रसिद्ध वरं श्रेष्ठं शासनं मतं येषां । पुनरपि कथंभूतानां ? कम्मचक्कमुक्काणं-कर्मणां
For Private And Personal Use Only