SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतभक्ति। मनःपर्ययप्रत्यक्ष स्तोतु परमनसीत्याद्याहपरमनसि स्थितमर्थ मनसा परिविद्य मंत्रिमहितगुणम् । ऋजुविपुलमतिविकल्पं स्तौमि मनःपर्ययज्ञानम् ॥२८॥ टीका-स्तौमि । किं तत् ? मनःपर्ययज्ञानं । कथंभूतं ? मंत्रिमहितगुणं अपारसंसारदुर्वारगरलापहारसमर्थापराजितमन्त्रो विद्यते येषां ते मंत्रिणो महर्षयः, तैर्महिता |गुणा विशिष्टचारित्रौकार्थसमवायित्वादयो यस्य तत्तथोक्तं । यदि वा मंत परिच्छेत्तृ महितगुणं महर्षिभिरिति व्याख्येयं । किंकृतं तत्तैर्महितगुणं ? परिविद्य-परिच्छिद्य । कं ? अर्थ । केन ? मनसा । मनःपर्ययज्ञानावरणविविक्त नात्मना। कथंभूतं ? परमनसि स्थितम् । नन्वेवं मनःपर्ययज्ञानस्य अतीन्द्रियप्रत्यक्षता न प्राप्नोति मन सम्बन्धेन लब्धप्रवृत्तित्वात् इति चेत्तदयुक्त, अभ्र चंद्रमसं पश्येत्यत्र विषयभावेन निर्दिष्टस्य अभ्रस्य चंद्रज्ञानानिवर्तकत्ववत् परमनसस्तद्निवर्तकत्वात् । परमनसि स्थितं परमनोविषये वर्तमानमिति व्याख्यानात् 'तस्य तदनपेक्षित्वसिद्ध, मनःपर्ययज्ञानावरणवीयातरायक्षयोपशमवि. शेषवशादेव तदुत्पत्तिप्रसिद्धः, सिद्ध अतोद्रियत्वं । तद्भदप्रदर्शनायाह ऋवित्यादि-ऋज्वी च विपुला च ते च ते मती ज्ञाने । ऋजुमति. मनापर्ययस्त्रिविधो निर्वर्तितप्रगुणवाक्कायमनःकृतार्थस्य परमनोगतस्य ग्रहणात् । विपुलमतिस्तु षोढा निर्वर्तितानिर्वर्तितप्रगुणाप्रगुणवाकायमनस्कृतार्थस्य परमनोगतस्य ग्रहणात् ।। २८ ॥ केवलज्ञानं स्तोतु क्षायिकमित्याद्याहक्षायिकमनन्तमेकं त्रिकालसर्वार्थयुगपदवभासम् । सकलसुखधाम सततं वंदेऽहं केवलज्ञानम् ।।२९।। टीका-अहं सततं वंदे । किं तत्केवलज्ञान-असहायज्ञानं । कथंभूतं ? सततं । किंविशिष्टं ? क्षायिक-सकलज्ञानावरणक्षये प्रादुर्भूतं । ज्ञानावरणादिचतुष्टयक्षयोत्पन्न । पुनः किंविशिष्ट' ? एक-अद्वितीयं For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy