________________
Shri Mahavir Jain Aradhana Kendra
१८५०
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
चरणच्यवने तदुचितप्रायश्चित्तं च प्ररूपयत्कल्प्यव्यवहारं । १० सागारयतीनां कालविशेषमाश्रित्य योग्यायोग्यविकल्प्यमाचरणं निरूपयत्कल्प्याकल्प्यं स्तौनि । ११ दीक्षाशिक्षागरण पोषणात्मसंस्कार भावनोत्तमार्थभेदेन पटकालप्रतिबद्ध्यतीनामाचरणं प्रतिपादयन्महाकल्यं । १२ भवनवास्यादिदेवेषु उत्पत्तिकारणतपःप्रभृतिप्रतिपादकं पुंडरीकं । १३ अमरामरांगना'सरः सूत्पत्तिहेतुप्रतिपादकं महापुंडरीकं तन्नाम यस्य तन्महापुंडरीकनाम । १४ सूक्ष्मस्थूलदोषप्रायश्चित्तं पुरुषवयः सत्त्वाद्यपेक्षया प्ररूपसंतीमशीतिकां सूक्ष्मेचिकया अर्थस्वरूपनिवेदकत्वान्निपुणान्येतानि सामयिकादीनि नौमीति संबंधः । महापुडरीकनामैव इत्ययमेवकारो नियमार्थो द्रष्टव्यः, अंगबाह्यान्येतावन्त्येव न हीनानि नाप्यधिकानि इति ।। २४-२५-२६ ॥
अथेदानीं पुद्गलेत्यादिना अवधिं स्तौतिपुलमर्यादोक्तं प्रत्यक्षं सप्रभेदमवधिं च । देशावधिपरमावधिसर्वाधिभेदमभिवंदे ||२७||
टीका - अभिवन्दे | कं? अवधिं । अव अधो बहुतरो विषयो धीयते निर्णीयते येनासौ अवधिस्तं । कथंभूत ? पुद्गलमर्यादोक्तं - पुद्गला एव मर्यादा प्रवृत्तिविषयस्येयत्ता तयोक्तं रूपिविषयतया प्रतिपादितं । पुनरपि कथंभूतं ? प्रत्यक्षं - मतिश्रुतज्ञानवदवधिज्ञानं परोक्षं न भवति । पुनरपि किं• विशिष्टं ? सप्रभेदं प्रकृष्टा अबाधिता भेदा विशेषाः सह तैर्वर्तते इति सप्रभेदास्तं । तानेव प्रभेदान् दर्शयितु देशावधीत्याद्याह — देशावधिश्व परमाafra सर्वावधि ते भेदा यस्य तं तद्भेदं अभिवंदे | परमावधिसर्वावधी चरमदेहमहर्षीणां भवतः । देशावधिः सर्वेषामपि । देशावधिपरमा"वधो जघन्योत्कृष्टादिविकल्पौ तथाविधावधिज्ञानावरणक्षयोपशमादुत्पन्नत्वात् । सर्वावधिः पुनः उत्कृष्टविकल्प एव सकलावधिज्ञानावरणक्षयोपशमात्प्रादुर्भावात् ॥ २७ ॥
For Private And Personal Use Only