SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रतभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir १७९ संख्याष्टासप्ततिं शतानां संख्या शतसंख्या अष्टाभिरधिका सप्ततिर - ष्टसप्ततिः शतसंख्या च सा अष्टसप्ततिश्च तां, अष्टाशीतिं च पदवर्णान्वंदे | १६३४८३०७८८८ इत्यंगप्रविष्ट ं श्रुतम् । मध्यमपदवर्णसंख्याहीनैः वर्णैरंगबाह्य श्रुतमारब्धं, मध्यमपदस्य तैरारब्धुं अशक्यत्वात् । तद्वर्णानां संख्या अष्टकोट्य कला । ष्ट सहस्रैकशतं पंचसप्ततिरिति । ८०१०८१७५ ।। २३ ॥ तत्र तदेवाङ्गबाह्यमनेकविधं श्रुतं स्तोतुमिच्छन्सामायिकमित्याद्याहसामयिक चतुर्विंशतिस्तवं वंदना प्रतिक्रमणं । वैनयिक कृतिकर्म च पृथुदशवैकालिकं च तथा ॥ २४॥ वरमुत्तराध्ययनमपि कल्पव्यवहारमेवमभिवंदे | कल्पकल्पं स्तौमि महाकल्प पुंडरीकं च ॥ २५ ॥ परिपाट्या प्रणिपतितोऽस्म्यहं महापुंडरीकनामैव । निपुणान्यशीतिकं च प्रकीर्णकान्यंगवाद्यानि ॥ २६ ॥ For Private And Personal Use Only । टीका - अहं प्रणिपतितोऽस्मि प्रणतवान्भवामि । कानि ? अंगबाह्यानि । कथं ? परिपाट्या - क्रमेण । कथंभूतानि ? प्रकीर्णकानि - प्रकीर्णा - परसंज्ञानि चतुर्दशाप्येतानि । पुनरपि कथंभूतानि ? निपुणानि - सूक्ष्मार्थप्रतिपादकानि । १ तत्र अनगारेतरयतीनां नियतानियतकालः समयः समता तत्प्रतिपादनं प्रयोजनं यस्य तत्सामयिकं । २ वृषभादीनां चतुत्रिंशदतिशय प्रातिहार्य लक्षणवर्णादिव्यावर्णकं चतुर्विंशतिस्तवं । ३ अर्हदादीनां एकैकशोऽभिवंदनाभिधानबोधिका वंदना । ४ दिवसरात्रिपक्षमासचतुर्मास संवत्सरेर्यापथिकोत्तमार्थप्रभवसप्तप्रतिक्रमणप्ररूकं प्रतिक्रमणं । ५ ज्ञानदर्शनतश्चारित्रोपचारलक्षण पंचविधविनयप्ररूपकं वैनयिकं । ६ दीक्षाग्रहणादेः प्रतिपादकं कृतिकर्म । ७ द्रुमपुष्पितादि • दशाधिकारैर्मुनिजनाचरणसूचक दशवेकालिक ं । = नानोपसर्गसहनतत्फलादेर्निवेदक उत्तराध्ययनम् । ६ यतीनां कल्प्यं योग्यमाचरणं आ
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy