SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया कलापे णामलेश्या भावलेश्या इति पंचदशानुयोगान् । सातमसातं इत्येकमनुयोगं नौमि इति क्रियाभिसंबंधात्सर्वत्र कर्मता । दीर्घमेकं ह्रस्वमेकं भवधार णीयमेकं भवधारणीय इति संज्ञा यस्य । पुरुमहत्पुद्रलात्मनामैकं, निधत्तमनिधत्तमेकंसनिकाचितमनिकाचितमप्येकं । अथ अनंतरं कर्मस्थितिकपश्चिमस्कंधौ द्वाविति चतुर्विंशतिः । अल्पबहुत्वं च यजे । कथंभूतं ? चतुविंशं-चतुर्विंशतेः पूरणं । केषां तदिति चेत् तद्द्वाराणां तस्य चतुर्थप्राभृ. तस्य द्वाराणीव द्वाराणि अनुयोगाः, अर्थगर्भावगाहनहेतुत्वात् । तेषामिति चतुर्विंशमित्यनेन सर्वानुयोगसाधारणमस्योक्तं । वस्तुत्या पंचविं. शोयमधिकारः । चतुर्विंशतेस्तद्धाराणां साधारणत्वात् तत्पूरण इत्युच्यते ॥१८-२१॥ इदानी कोटीनामित्यादिना सर्वाङ्गपदानां समुदितसंख्यामाहकोटीनां द्वादशशतमष्टापंचाशतं सहस्राणाम् । लक्षत्र्यशीतिमेव च पंच च वंदे श्रुतपदानि ॥२२॥ टीका-द्वादशसहितं शतं कोटीनां त्र्यशीतिलक्षाणि अष्टापंचाशत्सहस्राणि पंचपदानि श्रुतस्य वदे । एवकारो नियमार्थः एतावत्येव हि श्रुतपदानि न हीनानि नाप्यधिकानि इति । ११२८३५८०००५ ॥२२॥ ___षोडशशतमित्यादिना पदवर्णानां स्तुतिमाहषोडशशतं चतुस्त्रिंशत्कोटीनां व्यशीतिलक्षाणि । शतसंख्याष्टासप्ततिमष्टाशीतिं च पदवर्णान् ॥२३॥ टीका-त्रिविधं हि पदं अर्थप्रमाणमध्यमपदभेदात्। तत्रानियताक्षरं अर्थपदं, यावत्यक्षराणि अर्थादनपेतानि, तावत्प्रमाणं । प्रमाणपदं त्वष्टाक्षरमंगबाह्यश्रुतसंख्यानिरूपकं, श्लोकचतुर्थपादरूपं । अङ्गप्रविष्टश्रुतसंख्याख्यापकं मध्यमपदं । तस्मै वर्णसंख्याख्यापनाय षोडशशतमित्याद्याह-षोडशानां शतानां समाहारः षोडशशतं पात्रादेराकृतिगतूणत्वा ङीप्रतिषेधः । चतुस्त्रिंशच्च कोटीनां व्यशीतिलक्षाणि शत. For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy