SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७६ किया-कलापे - ककोटिपदं कर्मणां बंधोदयोदीरणोपशम निर्जरादिप्ररूपर्क कर्मप्रवादं १८०००००० । ( ६ ) चतुरशीतिलक्षपदं द्रव्यपर्यायाणां प्रत्याख्यानस्य निवृतेर्व्यावर्णकं प्रत्याख्यानं नामधेयं संज्ञा यस्य तत्प्रत्यख्याननामधेयं ८४००००० । (१०) दशलक्षैककोटिपदं क्षुद्रविद्यासप्तशती महाविद्यापंचशतीं अष्टांगनिमित्तानि च प्ररूपयन् पृथुविद्यानुप्रवादम् ११०००००० । ( ११ ) षड्विंशतिकोटिपदं श्रर्हद्वलदेववासुदेवचक्रवर्त्यादीनां कल्याणप्रतिपादकं कल्याणनामधेयम् २६००००००० । (१२) त्रयोदशकोटिपदं प्राणापानविभागायुर्वेदमंत्र वा दगारुडवादादीनां प्ररूपकं प्राणावायम् १३००००००० | ( १३ ) नवकोटिपदं द्वासप्ततिकलानां छंदोलंकारादीनां च प्रतिपादकं क्रियाविशालं ६०००००००। (१४) पंचाशल्लक्षद्वादशकोटिपदं लोकबिंदुसारं चतुदेशं पूर्वम् १२५००००००। अथ--अनंतरं वंदे । कथंभूतं १ लोकाप्रसा रपदं - - लोके यदमं सारं सर्वसाराणां प्रधानभूतं सारं मोक्षसुखतत्साधना नुष्ठानादिकं च तस्य पदं स्थानं तत्प्रतिपादकत्वात् । ॥१०- १३॥ स्तुत्वैवं पूर्वाणि पूर्वाधिकारवस्तूनां वस्त्वधिकारप्राभृतानां च संख्यापूर्वं स्तवनमाह दशेत्यादि Acharya Shri Kailassagarsuri Gyanmandir दश च चतुर्दश चाष्टावष्टादश च द्वयोर्द्विषट्कं च । षोडश च विंशतिं च त्रिंशतमपि पंचदश च तथा ॥ १४ ॥ वस्तूनि दश दशान्येष्वनुपूर्व भाषितानि पूर्वणाम् । प्रतिवस्तु प्राभृतकानि विंशतिं विंशर्ति नोमि ॥ १५ ॥ टीका-पूर्वारणामुत्पादपूर्वादीनां अनुपूर्व अनुक्रमेण दशादीनि यानि वस्तूनि १० । १४ । = | १८ | १२ | १२ | १६ | २० | २० | १५ | १० १० | १० | १० | समुदायेन पंचनवतिशतसंख्यानि । यानि च एकैकस्मिवस्तुनि विंशतिविंशतिप्राभृतकानि । पिंडेन नवशतीत्रिसहस्रीसंख्यानि तानि नौमि ॥ १४-१५ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy