________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धभक्तिः ।
१७५
पूर्वगतं तु चतुर्दशधोदितमुत्पादपूर्वमाद्यमहम् । आग्रायणीयमीडे पुरुवीर्यानुप्रवादं च ॥१०॥ संततमहमभिवंदे तथास्तिनास्तिप्रवादपूर्व च । ज्ञानप्रवादसत्यप्रवादमात्मप्रवादं च ॥११॥ कर्मप्रवादमीडेऽथ प्रत्याख्याननामधेयं च । दशमं विद्याधारं पृथुविद्यानुप्रवादं च ॥१२॥ कल्याणनामधेयं प्राणावायं क्रियाविशालं च । अथ लोकबिंदुसारं वंदे लोकाग्रसारपदं ॥१३॥
टीका-पूर्वेषु गतं स्थितं श्रुतं यथानयनगतमञ्जनमिति । तत्पुनश्चतुर्दशधोदितं गणधरैरिति वाक्यशेषः । तत्र प्रत्यवयवं स्तुति दर्शयितु उत्पादेत्याद्याह-(१)जीवादेरुत्पादव्ययध्रौव्यप्रतिपादककोटिपदं उत्पादपूर्णम् १०००००००। (२) षण्णवतिलक्षपदमंगानामप्रभूतार्थस्य प्रधानभूतार्थस्य प्रतिपादकं प्राग्रायणीयम् ६६०००००। ईडे-स्तौमि । पुरुमहत् । एतच्च विशेषणं सर्वत्र संबंधनीयं। (३)सप्ततिलक्षपदं चक्रधरसुरपतिधरणेन्द्रकेवल्यादीनां वीर्यमाहात्म्यव्यावर्णकं वीर्यानुप्रवादम् ७००००० । सततमनवरतं । तथा तेनैव भक्तिप्रकर्षप्रकारेणाहमभिवंदे । (४) षष्टिलक्षपदं षट्पदार्थानां अनेकप्रकारैरस्तित्वनास्तित्वधर्मसूचक अस्तिनास्तिप्रवादं ६०१०००० । (५) एकोनकोटिपर्द अष्टज्ञानप्रकाराणां यदुदयहेतूनां तदाधाराणां च प्ररूपकं ज्ञानप्रवादम् EEEEEEE I (६) षडधिककोटिपदं वाग्गुप्तेः वाक्संस्काराणां कंठादिस्थानानां आविष्कृतवक्तृत्वपर्यायद्वींद्रियादिवक्तृणां शुभाशुभरूपवचःप्रयोगस्य सूचकं सत्यप्रवादं १००००००६ । (७) षड्विंशतिकोटिपदं जीवस्य ज्ञानसुखादिमयत्वकर्तृत्वादिधर्मप्रतिपादकं आत्मप्रवादम् २६०००००००। (८) अशीतिलौ
For Private And Personal Use Only