SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ क्रिया-कलापे- टीका - किंविशिष्टं ? पंचविधं पंच विधा: प्रकाराः यस्य । तानेव पंच प्रकारान्परिकर्मेत्यादिना दर्शयति । तत्र चन्द्रसूर्य जंबूद्वीपद्वोपसागरव्याख्याप्रज्ञप्तिभेदात्पंचविधं परिकर्म । तत्र ( १ ) चंद्रायुर्गतिवैभवादिप्रतिपादिका पंचसहस्रपट्त्रिंशल्लक्षपदपरिमाणा चंद्रप्रज्ञप्तिः ३६०५००० । (२) त्रिसहस्रपंचल क्ष पदपरिमाणा सूर्यविभवादिप्रतिपादिका सूर्यप्रज्ञप्तिः ५०३०००। (३) पंचविंशतिसहस्रल क्षेत्रयपदपरिमारणा जंबूद्वीपस्य अखिल वर्षवर्षधरादिसमन्वितस्य प्ररूपिका जंबूद्वीपप्रज्ञप्ति: ३२५००० । ( ४ ) षट्त्रिंशत्सहस्रद्विपंचाशल्लक्षपदपरिम. या असंख्यातद्वीपसमुद्रस्वरूपप्ररूपिका द्वीपसागरप्रज्ञप्तिः ४२३६००० । ( ५ ) चतुरशीतिलक्षषट्त्रिंशत्सहस्रपदपरिमाणा जीवादिद्रव्याणां रूपित्वारूपित्वादिस्वरूपनिरूपिका व्याख्याप्रज्ञप्तिः ८४३६००० । ( ६ ) अष्टाशीतिलक्षपदपरिमाणं जीवस्य कर्मकर्तृत्वतत्फलभोक्तृत्वासर्वगतत्वादिधर्मविधायकं | पृथिव्यादिप्रभवत्वाणुमात्रत्वसर्वगतत्वादिधर्मनिषेधकं च सूत्रं ८८०००००। (७) पंचसहस्रपदपरिमाणः त्रिषष्टिशलाका पुरुषपुराणानां प्ररूपकः प्रथमानुयोगः ५०००। (८) पंचनव तिकोटिपंचाशल्लक्षपंचपदपरिमाणं निखिलार्थानामुत्पादव्ययधौव्याद्यभिधायकं पूर्वगतम् ६५५००००० ५ । जलगता, स्थलगता, मायागता, रूपगता, आकाशगता चेति पंचविधा चूलिका । तत्र कोटिद्वयनवलक्षैकोननवतिसहस्रशतद्वयपदपरिमाणा जलगमनस्तंभनादिहेतूनां मंत्रतंत्रतपश्चरणानां प्रतिपादिका जलगता २०६८६८००२०० । स्थलगताप्येतावत्पदपरिमाणैव भूगमनकारण मंत्रतंत्रादिसूचिका, पृथ्वीसबंधवास्तुविद्याप्रतिपादिका च । मायागतापि एतावत्पदपरिमाणैव व्याघ्रसिंहहरिणादिरूपेण परिणमनकारण मंत्रतंत्रा देश्चित्रकर्मादिलक्षणस्य प्रतिपादिका । आकाशगताप्येतावत्परिमाणैव आकाशगमनहेतुभूतमंत्रतंत्रतपःप्रभृतीनां प्रकाशिका ॥ ६ ॥ सामान्यतः स्तुतमपि "पूर्वगतं मुख्यबहुभेदसंभवात्पुनः स्तोतु पूर्वगतमित्याद्याह Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy