SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतभक्तिः । साम्यप्रतिपादकं समवायनामधेयं १६४००० । चः समुच्चये । (५) अष्टाविंशतिसहस्रलक्षद्वयपदपरिमारणा जीवः किमस्ति नास्तीत्यादिगणधरषष्टिसहस्रप्रश्नव्याख्याविधात्री व्याख्याप्रज्ञप्तिः २२८०००। (६) षट्पंचाशत्सहस्राधिकपंचलक्षपदपरिमाणा तीर्थकराणां गणधराणां च कथोपकथाप्रतिपादिका ज्ञातृकथा ५५६००० । (७) सप्ततिसहस्त्रैकादशलक्षपदसंख्यं श्रावकानुष्ठानप्ररूपकं उपासकाध्ययनम् ११७०००० । (८) अष्टाविंशतिसहस्रत्रयोविंशतिलक्षपदपरिमाणं प्रतितीर्थं दशदशानगाराणां निर्जितदारुणोपसर्गाणां निरूपकमंतकृद्दर्श, संसारस्य अंतं कृतवंतो दश दश यत्र निरूप्यते, अंतकृतां वा दश दश यत्र निरूध्यंते तदंतकृद्दर्श २३२८००० । (६) चतुश्चत्वारिंशत्सहस्रद्विनवतिलक्षपदपरिमाणं प्रतितीर्थं निर्जितदुद्धरोपसर्गाणां समासादितपंचानुत्तरोपपादानां दशदशमुनीनां प्ररूपकमनुत्तरौपपादिकदशं । उपपादो जन्म प्रयोजनं येषां ते औपपादिका मुनयः, अनुत्तरेषु श्रपपादिकाः अनुत्तरौपपादिकाः ते दश यत्र निरूप्यते तत्तथोक्तम् ६२४४००० | दशावस्थं दश अवस्था निर्जितदारुगोपसर्ग मुनिप्रतिपादनप्रकाश यत्र । एतश्च विशेषणं अनंतरोक्तमंगद्वयेऽपि संबंधनीयम् । (१०) षोडशसहस्रत्रिनव तिलक्ष पदपरिमाणं नष्टमुष्टयादीन्परप्रश्नानाश्रित्य यथावत्तदर्थप्रतिपादकं, प्रश्नानां व्याकर्तृ प्रश्नव्याकरणं । हि वाक्यालंकारे पादपूरणे स्फुटार्थे वा ६३१६००० । ( ११ ) चतुरशीतिलक्षाधिकैककोटिपदपरिमाणं सुकृतदुष्कृत विपाकसूचकं विपाकसूत्रं १८४००००० । तद्विनमामि - विशुद्धिविशेषेण प्रणमामि । द्विसहस्राधिकपंचदशलक्षोत्तरकोटिचतुष्टयपरिमाणा एकादशांगानां समुदिता पदसंख्या ४१५०२००० ||७ ---८|| द्वादशमं त्वङ्ग' दृष्टिवादाख्यं इदानीं स्तौमि - । परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते । सार्द्धं चूलिकयापि च पंचविधं दृष्टिवादं च ॥९॥ For Private And Personal Use Only १७३
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy