SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir अनयैव दिशा समासवृद्धिः प्रतिपत्तव्या । प्रतिपत्तिकादप्यूर्ध्वं प्रतिपत्तिकसमासः (संख्यातप्रतिपत्तिकरूपादनुयोगात्समस्तमार्गणानिरूपणसमर्थात् प्राक् । तस्मादप्युपरिष्टादनुयोगसमासः संख्यातानुयोगस्वरूपात्प्राभृतकप्राभृतकादधस्तात् । प्राभृतकप्राभृतकचतुर्विंशत्या भवति प्राभृतकं प्राभृतकात्प्राक् प्राभृतकप्राभृतकसमासः । प्राभृतकसमासोपि प्राभृतकविंशतिपरिमाणाद्वस्तुनः पूर्वं । वस्तु समासः पुनर्वस्तुनः परतो दशादिवस्तुपरिमाणात्पूर्वात्प्रागवगंतव्यः । ततः परं पूर्वसमास एव पूर्णसमुदये परमश्रुतसंज्ञाया अभावादिति । इदानीं द्रव्यश्रुतं वचनपद्धत्या निबद्धमनेकविधं निरूपयन्नङ्गप्रविष्टमनेकविधं तावद्द्द्वादशेत्यादिना निरूपयति तद्वदे इत्येतदत्रापि संबध्यते । कथंभूतं ? द्वादशधोक्त' । कया ? गभीरवरशास्त्र पद्धत्या -- अनंतार्थविपयत्वाद्गंभीराणि, अबाधि तविषयत्वाद्वराणि यानि शास्त्राणि तेषां पद्धतिरनुपरिपाटी तया ॥५- ६॥ के ते द्वादश प्रकारा इत्याह आचारमित्यादि - आचारं सूत्रकृतं स्थानं समवायनामधेयं च । व्याख्याप्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने ॥७॥ वंदे तकृद्दशमनुत्तरोपपादिकदर्श दशावस्थम् । प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि ॥ ८ ॥ टीका - ( १ ) अष्टादशपदसहस्रपररिमाणं गुप्तिस मित्यादियत्याचारसूचकं आचारांगम् १८००० । ( २ ) षट्त्रिंशत्पदसहस्रपरिमाणं ज्ञानविनयादिक्रियाविशेष प्ररूपकं सूत्रकृतम् ३६०००। (३) द्विचत्वारिंशत्पदसहस्रसंख्यं जीवादिद्रव्यैकाद्ये कोत्तरस्थानप्रतिपादकं स्थानं ४२००० । (४) चतुःषष्टिसहस्रै कलक्षपदपरिमाणं द्रव्यतो धर्माधर्मलोकाकाशकजीवानां, क्षेत्रतो जंबूद्वीपाप्रतिष्ठाननरकनंदीश्वरवापीसर्वार्थसिद्धिविमानादीनां, कालत उत्सर्पिण्यादीनां भावतः क्षायिक ज्ञानदर्शनादिभावानां For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy