SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुसभक्तिः। तेषां समासतोऽपि च विंशतिमेदान्समश्नुवानं तत् । वंदे द्वादशधोक्तं गभीरवरशास्त्रपद्धत्या ॥६॥ टोका-तत्-श्रुतं वंदे। किं कुर्वत् ? समनु वानं-व्याप्नुवत् । कान् ? विंशतिभेदान् । के ते विंशतिभेदा इति चेदुच्यते--पर्यायश्चाक्षरं च पदं च संघातश्च प्रतिपत्तिकश्च अनुयोगविधिश्चति षट्। प्राभृतकप्राभृतकादयश्चत्वार इति दश । तेषां समासतोऽपि च अपि: संभावने, चः समुच्चये । तेषां पर्यायादीनां समासतः समासात् दशसमासानाश्रित्य ये विंशतिभेदाःसंपन्नास्तान्समश्रुवानं श्रुतं वंदे । इदानी पर्यायादीनां स्वरूपं निरूप्यते-सूक्ष्मनित्यनिगोदजीवस्यापर्याप्तस्य यत्प्रथमसम ये प्रवृत्तंसर्वजघन्यं ज्ञानं तत्पर्यायशब्देनोच्यते । तद्धि ज्ञानं लब्ध्यक्षरापराभिधानं अक्षरश्रुतानंतभागपरिमाणत्वात्सर्वविज्ञानेभ्यो जघन्यं नित्योद्घाटितं निरावरणं । न हि भावतस्तस्य कदाचनाप्यभावो भवत्यात्मनोप्यभावप्रसंगात् उपयोगलक्षणत्वात्तस्य । तदुक्तगिचणिगोदपज्जत्तयस्स जादस्स पढमसमम्मि । हवदि हु सव्वजहरणं णिच्चुग्घा णिरावरणं ॥१॥ तदेव ज्ञानं अनंतासंख्येयसंख्ययेभागवृद्धयासंख्येयासंख्येयानंतगुणवृ. द्धया च वर्द्ध मानं असंख्येयलोकपरिमाणं । प्रागक्षरश्रुतज्ञानात्पर्यायसमासोऽभिधीयते । अक्षरश्रुतज्ञानं तु एकाक्षाराभिधेयावगमरूपं श्रुतज्ञानं असंख्येयभागमात्रं तस्योपरिष्टादक्षरसमासोक्षरवृद्धया वर्द्धमानो द्वित्राद्यक्षराधबोधस्वभावः पदावबोधात्पुरस्तात् । पदप्रमाणं चाने वक्ष्यते । पदात्पुनः परतः पदसमासोक्षरादिवृद्धथा वद्धमानः प्राक् संघातात् । संख्यातपदसहस्रपरिमाणः संघातो नरकाद्यन्यतमगतिप्रपंचप्ररूपणप्रवणः । प्रतिपत्तिकात्संख्यातसंघातपरिमाणाद्गतिचतुष्टयव्यावर्णनसमर्थात पूर्व अक्षरादिवृद्धया वर्द्धमानः संघातसमासः । एवमुत्तरत्रापि For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy