SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० क्रिया-कलापे नेकपरार्थप्रतिपत्तिर्यस्यां बुद्धौ सा बीजबुद्धिः। श्रादावते यत्र तत्रैकपदप्रहणात्समस्तग्रंथार्थस्यावधारणं यत्र बुद्धौ सा पदानुसारिबुद्धिः। सं सम्यक् संकरव्यतिकरव्यतिरेकेण भिन्नं विविक्तं शब्दस्वरूपं शृणोति इति संभिन्नश्रोत तस्य भावः संभिन्नश्रोतृता । द्वादशयोजनायामनवयोजनविस्तारचक्रवर्तिस्कंधावारोत्पन्ननरकरभाद्यनक्षराक्षरात्मकशब्दसंदोहस्या-- विभक्तस्य युगपत्प्रतिभासो यस्यां सत्यां सा संभिन्नश्रोतृता। सा च तद्भवे पूर्वभवे वा उपार्जितात्तपोविशेषापादितप्रकृष्टक्षयोपशममाहात्म्याद्भवति तया सासहितं । कोष्टबुद्धयादीनां बुद्धध‘वंतर्भावेऽपि प्राधान्यात्पृथगुपादानं । पुनरपि किंविशिष्टं तदित्याह श्रुतभाजनं-श्रुतस्य भाजनं श्रतोत्पत्तेरधिकरणं जनकमित्यर्थः श्रुतं मतिपूर्वमित्यभिधानात् ॥२-३॥ मतिं स्तुत्वा श्रुतं स्तोतुमाहश्रुतमपि जिनवरविहितं गणधररचितं द्वयनेकभेदस्थम् । अङ्गांगबाह्यभावितमनंतविषयं नमस्यामि ॥ ४ ॥ ___टीका-श्रुतमपीत्यादि । अपिशब्दः समुच्चये न केवलं मति,श्रुतं च नमस्यामि । कीदृशं तदित्याह जिनेत्यादि-देशजिनेभ्यो वरा उत्कृष्टाः तैर्विहितं । अर्थस्य अर्थपदानांच तत्प्रसादाद् गणधरैः परिज्ञानाद् गणधरैः रचितं अंगपूर्वादिपद्धत्या निबद्ध तत्प्रकारप्रतिपत्तये द्वयनेकभेदस्थमित्याह द्वौ च अनेकश्च त एत्र भेदास्तैस्तेषु वा तिष्ठतीति तत्स्थं । तत्र द्वौ भेदौ दर्शयितुमंगेत्याह अंगेभ्यो बाह्य अंगाबाह्य अंगानि च अंगबाह्य च तैः प्रकारैर्भावितं । अनंतो विषयोऽस्येत्यनंतविषयं । अनेकविधं श्रुतं भावरूपं द्रव्यरूपं च भवति ॥४॥ तत्र भावरूपं पर्यायेत्यादिना प्ररूपयतिपर्यायाक्षरपदसंघातप्रतिपत्तिकानुशोगविधीन् । प्रामृतकमाभृतकं प्राभृतकं वस्तु पूर्व च ॥ ५ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy