________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतभक्तिः ।
१६६
टीका - वन्दे - स्तुवे । किं तत् ? अभिनिवोधिकं - मतिज्ञानस्य संज्ञेयं 'मतिः स्मृति: संज्ञा चिंताभिनिबोध इत्यनर्थान्तरं' इति वचनात् । अन्वर्था चेयं संज्ञा । तथाहि । अभिराभिमुख्ये, आभिमुख्यं च ज्ञानस्य योग्यदेशकालस्वार्थग्राहित्वं । निर्नियमेन । नियमश्च चक्षुरादिज्ञानस्य रूपादौ स्वविषये संकर व्यतिकरव्यतिरेकेण प्रवृत्तिः । अभिनिबोध एव आभिनिबोधिकमिति, 'विनयादित्वाण' अभिमुखनियमितबोधनमित्यनेन वास्य निरुक्तिरुक्ता । कथंभूतमित्याह अनिंद्रयेंद्रियजं इंद्रियाणि चक्षुरादीनि, अनिंद्रियं मनः तेभ्यो जातमित्यनेन तदुत्पत्तिकारणं कथितं । गुणदोषविचारस्मृत्यादेर्मनोनिबंधनत्वात् । ऐंद्रियस्योभयनिमित्तत्वात् कथं तर्हि तस्येद्रियजत्वमिति चेत् १ इंद्रियप्रधानतया तथा व्यपदेशात् । किंभेदं तदित्याह बह्नित्यादि - बहुरादिर्येषां बहुविधादीनां ते बह्नादयः, अवग्रह आदियें पामहादीनां ते अवग्रहादिकाः बह्लादयश्च अवग्रहादिकाश्च तैः कृतास्तत्कृताः षभिरधिकास्त्रिंशद्येषु तानि षट्त्रिंशानि ' वदस्मिन्नधिकं ' इति सद्दशांता इति डः । षटूत्रिंशानि च तानि त्रिशतानि च, तान्येव भेदाः तत्कृतास्तद्भेदा यस्य तत्तथोक्त ं । तथाहि बह्रादयो द्वादश अवग्रहादिभिश्चतुर्भिराहता अष्टचत्वारिंशत्प्रतींद्रियं भवति । सा च नयनमनोवर्जमितरेंद्रियाणां व्यंजनाव प्रद्दद्वादशभेदैश्चतुर्भिर्युक्ता त्रिशती षट्त्रिंशा भवति । पुनरपि किंविशिष्ट तदित्याह - विविधा नाना प्रकारा ऋद्धयो बुद्ध्यादिकाः सप्त ताभिः वृद्ध प्रवृद्ध ं तच्च तत्कोष्ठ फुटबीजपदानुसारिबुद्ध्यधिकं च, कोष्ठश्च स्फुटमनुपहतं तच्च तद्वीजं च पदानुसारिणी च तच्च ताञ्च बुद्धयश्च ताभिरधिकमुत्कृष्ट ता अधिका यत्र तत्तथोक्त' । अथवा विधर्द्धिविवृद्धाः कोष्ठादिबुद्धयो यत्रेति ग्राह्य ं । तत्र कोष्ठे कोष्ठागारिकधृतभूरिधान्यानां अविनष्टाव्यतिकीर्णानामवस्थानं यथा तथैवावस्थानमवधारितग्रंथार्थानां यत्र बुद्धौ सा कोष्टबुद्धिः । किंविशिष्टक्षेत्रे कालादिसाहाय्यं एकमप्युप्त' बीजमनेकबीजप्रदं भवति यथा तथैकबीजपदग्रहणाद
२२
For Private And Personal Use Only