SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ किया-कलाप norrrrrrrrrrna २-श्रुतभक्तिः । इदानीं सिद्धास्तुत्वा श्रुतं स्तुवन् स्तोष्ये इत्याद्याह । स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेद भिन्नानि । लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा ॥१॥ टीका-स्तोष्ये-वंदिष्ये । कानि ? संज्ञानानि, सम्शब्दः सम्यगर्थः सच्छब्दो वा प्रशस्तार्थः । सम्यश्चि यथार्थपरिच्छेतृणि संति, प्रशस्तानि वा ज्ञानानि संज्ञानानि । अनेन ज्ञानविशेषणेन मिथ्याज्ञाननिवृत्तिः कृताभ वति। सम्यग्दृष्टर्मिध्याज्ञानस्तुत्यनुपपत्तेः। कभूतानि ? परोक्षप्रत्यक्षभेदभिन्नानिपरोक्षश्च प्रत्यक्षश्च परोक्षप्रत्यक्षौ, तावेव भेदौ विशेषौ ताभ्यां भिन्नानि विविक्तानि । पुनरपि किंविशिष्टानि इत्याह लोकेत्यादि--लोकश्चालोकश्व तयोर्विलोकनं परिज्ञानं तत्र लोलितः सोत्कण्ठः सन् प्रशस्तो लोकः सल्लोकः सम्यग्दृष्टिः तस्य लोचनानि चषि । यथा लोचनव्यापारेण प्राणिनां पटादिपदार्थपरिज्ञानं भवति तथा एवंविधज्ञानव्यापारण भव्यानां लोकालोकपरिज्ञानमिति । तानि स्तोष्ये सदा, लोचनानि वा सदेति संबंधः ॥ १॥ तत्र पंच संज्ञानेषु मध्ये आद्यं मतिज्ञानं स्तोतुमिच्छन्नभिमुखेत्याचार्याद्वयमाह अभिमुखनियमितबोधनमाभिनिबोधिकमनिंद्रियेद्रियजं । बहाद्यवग्रहादिककृतषट्त्रिंशत्रिशतभेदम् ॥ २॥ विविधर्द्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं । संभिन्नोत्तया सार्धं श्रुतभाजनं वन्दे ॥३॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy