________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
क्रिया-कलापे
वर्जितं सुपरिशुद्धं सुष्ठु अतिशयेन परि समंतानिर्दोषं यथा भवति तथा यो वंदते । के ते वंदनायां द्वात्रिंशद्दोषा इति चेदुच्यते
प्राणादिदं च थडच पविटुं परिपीडिदं । दोलाइयमकुसीयं तहा कच्छवरिंगियं ॥ मच्छवत्तं मणोदुटुं वेश्यावद्धमेव य । भयसा चेव भयत्तं इड्डिगारवगारवं॥ तेणिदं पडिणिदं चावि पदुळु तजिदं तथा । सहं च हीलिदं चावि तहातिवलिदं कुंचिदं ॥ दिठ्ठमदिळं चावि संघस्स करमोचणं । अलद्धमाणलद्ध' हीणमुत्तरचूलियं ॥ मूगं च दद्दरं चावि सुललिदं च श्रापच्छिमं । वत्तीसदोसपरिसुद्ध किदिकम्मं पउंजये।
तत्र अणादिदं--आदररहितं यो वंदते तस्य स दोषो भवति । थट्टच-स्तब्धो भूत्वा । पविट्ठ-देवस्यात्यासन्नो भूत्वा । परिपीडिदंहस्ताभ्यां जानुनी परिपीड्य । दोलाइद-दोलायमानः । अंकुसं--अंकुश वत्करांगुष्ठौ ललाटे निवेश्य । कच्छवरिंगिदं--कच्छपवदुपविष्टः संचरन् । मच्छवत्त-मत्स्योद्वर्तनवत् एकपाद्येन स्थित्वा । मरणोदुटुं-प्राचार्यादीनामुपरि चेतसि खेदं कृत्वा । वेइयावद्ध--जानुनो अपरिपीडयन् , बाहुभ्यां योगपट्ट कृत्वा । भयसा-गुरुणा विभीषितो, यदि देवान्न वदिष्यसे तदा ज्ञास्यसीति । भयत्तं-स्वयमेव गुरुभ्यो भीतः । इडिगारवं -वंदनां कुर्वतो मम चातुर्वर्ण्यसंघो भक्तो भविष्यति इति गारवं आत्मनो महत्त्वमिच्छन् आहारादिप्राप्ति वावांछन्।तेणिद-यथा कश्चिन्न जानाति तथा चौर्येण वंदते । पडिणिदं--गुरोः प्रातिकूल्येन श्राज्ञाखंडनं कृत्वा । पदुटुं-कलहं कृत्वा क्षतव्यमकुर्वन् । तजिदं--पार्श्ववर्तिनी भीषयन् । सई च--वार्ता कथयन् । होलिदं--पार्श्ववर्तिनां उपहास
For Private And Personal Use Only