SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ क्रिया-कलापे टीका-सुगमं । अइसयमव्वाबाहं ते-सिद्धाः पत्ता-प्राप्ताः। किं तत् ? सौख्यं । किंविशिष्टं १ अतिशयवत्, अव्यावाधं, अनंत, अनुपमं, प्रकृष्टं, इंद्रियविषयातीतं, अप्राप्तं, अच्यवनमिति ॥६॥ क स्थिताः कीदृशाश्च ते इत्याह-- लोयग्गमत्थयत्था चरमसरीरेण ते हु किंचूणा । गयसित्थमूसगब्मे जारिसआयार तारिसायारा ॥१०॥ टीका-लोयग्गेत्यादि । लोयग्गमत्थयत्था-लोकायमस्तकस्था, चरमसरीरेण-अन्त्यशरीरपरिमाणेन किंचूणा-किंचिदूनाः निबिडरूपतया तदात्मप्रदेशानामवस्थानात् नखत्वगादिशरीरपरिमाणहीनत्वाच । गयसित्थमूसगन्भे जारिस आयार तारिसायारा-गतसिक्थमूषागर्ने यादृश आकारो भवति तादृशाकाराः सिद्धाः भवंति ॥१०॥ इदानीं स्तोता स्तुतेः फलं प्रार्थयते-- जरमरणजम्मरहिया ते सिद्धा मम सुभत्तिजुत्तस्स । दितु वरणाणलाहं बुहयणपरिपत्थणं परमसुद्धं ॥११॥ टीका-ते उक्तविशेषणविशिष्टाः सिद्धाः मुक्ताः जरा वृद्धत्वं, मरणं प्राणापानवियोगः, जन्म मातुरुदरे उत्पत्तिः, ते रहिताः । मम सुभत्तिजुत्तस्स-सुभक्त्या युक्तस्य, दितु-ददतु । वरणाणलाहं--केवलज्ञानप्राप्ति । बुयणपरिपत्थणं--बुधजनैः परिप्रार्थना यस्य । अन्यत्सुगमं ॥११॥ स्तुतेविधि प्ररूपयन् किच्चेत्याह-- किच्चा काउस्सग्गं चउरहयदोसविरहियं सुपरिसुद्धं । अइभत्तिसंपउत्तो जो वंदइ लहु लहइ परमसुहं ॥१२॥ टीका-कृत्वा । कं ? कायोत्सर्ग द्वात्रिंशदोषवर्जितं सुपरिसुद्धअतिभक्तिसंयुक्तो यो वन्दते स लघु लभते सिद्धिसुखं । उक्तं च For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy