________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
केचिद्वयोर्मतिश्रुतज्ञानयोः पूर्व स्थित्वा, केचित् त्रिषु मतिश्रुतावधिषु मतिश्रुतमनःपर्ययेषु वा, केचित्तु चतुर्यु मतिश्रुतावधिमनापर्ययेषु पश्चात्केवलं उत्पाद्य सिद्धयन्तीति । तथा पंचर्सयमान्-परिहारशुद्धिसंयमस्य केषांचिदभावाच्चतुःसंयमान्पश्चोत्कृत्य उत्पाद्य यथाख्यातेन एकेन सिद्धाः । इत्यनेन निवृत्तिहेतुभूतगुणभेदाभेदः । परिवडिदापरिवडिदे--परिपतिताऽपरिपतितान् । केभ्य इत्याह संजमसंमत्तणाणमादिहि-संयमश्च, सम्यक्त्वं च, ज्ञानं च आदिशब्दाद् ध्यानलेश्यादिपरिग्रहः तेभ्यः ॥४॥
साहरणासाहरणे सम्मुग्धादेदरे य णियादे । ठिदपलियंकणिसण्णे विगयमले परमणाणगे वंदे ॥५॥ टीका-साहरणासाहरणे-उपसर्गतरवशात्साभरणासाभरणसिद्धाः साहृतासाहृतसिद्धा वा भवंति । सम्मुग्घादेदरे य णिव्वादे-समुद्घातेतरनिवृतान् । आयुष्यंतमुहूर्तेऽहीनतरकर्मणां विषमस्थितिकत्वं केवलज्ञानेन ज्ञात्वा दण्डकपाटादिकं विधाय समस्थितिकानि कर्माणि कृत्वा ये सिद्धास्ते समुद्घातसिद्धाः । ठिदपलियंकणिसएणे-- स्थित उर्ध्वकायोत्सर्गः पर्यक उपविष्टकायोत्सर्गः ताभ्यां निषण्णान् व्यवस्थितान् । विगयमले-कर्ममलरहितान् , एतान् सर्वान् परमपाणगे-परमज्ञानं केवलज्ञानं तद्गतं प्राप्तं गैस्तान गंदे ॥५॥
इदानीं द्रव्यतो ये पुंवेदाः क्षपकश्रेण्यारूढाश्चात्मानस्ते सिद्धयन्ति भावतस्तु त्रिवेदा अपीति दर्शयति
पुंवेदं वेदंता जे पुरिसा खवगसेढिमारूढा । सेसोदयेण वि तहा ज्झाणुवजुत्ता य ते दु सिझंति ॥६॥
टीका-पुवेदं वेदंता जे पुरिसा खवगसेढिमोरूढा-भावपुंवेदमनुभवतो ये पुरुषाः क्षपकश्रेणीमारूढाः, न केवलं भावपुंवेदेनैव अपि तु
For Private And Personal Use Only