________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
१५९
माहात्म्यः यस्य परममिंद्रादिसुखातिशायि सुखं तो हेतोस्तस्य पूर्वोक्तलक्षणोपेतस्य । श्र धाम्नि संतिष्ठमानस्य सिद्धस्य जातमिति ||७|| श्रतः सांसारिक सुखसाधकैरन्नादिभिर्न तस्य किंचित्प्रयोजनमित्याहनार्थः क्षुत्तृविनाशाद्विविधरसयुतैरन्नपानैरशुच्या
नास्पृष्टेर्गन्धमाल्यैर्न हि मृदुशय नैग्लनिनिद्राद्यभावात् । आतंकार्तेरभावे तदुपशमनसद्वेषजानर्थ तावद्
दीपानर्थक्यवद्धा व्यपगततिमिरे दृश्यमाने समस्ते ||८॥
टीका - नार्थ इत्यादि । नार्थो न प्रयोजनं । कैरन्नपानैः क्षुत्तृ विनाशात् । कथंभूतैर्विविधरसयुतैः बहुप्रकाररसोपेतैः । तथा गंधमाल्यैर्नार्थः । गंधाः यक्षकर्दमादयो माल्यानि पुष्पाणि तैः । कुतो नार्थ इति चेत् अशुच्यानास्पृष्टेः न विद्यते शुचिगुणोस्या इति अशुचिस्तया इति अनास्पृष्टेः । तथा न हि नैव मृदुशयनैरर्थः । कुतो ग्लानिनिद्राद्यभावात् — ग्लानिनिद्रे प्रसिद्ध आदिशब्देन ज्वरादिपरिग्रहस्तेषामभावात् । अत्रार्थे दृष्टांतमाह आतंकेत्यादि । आतंकः सहसाभावी सद्यः प्राणहरो व्याधिः रोगः तेन कृता श्रर्तिः पीडा तस्या अभावे, उपशमनं उपशांतिः यस्मात्तच्च तद्भ ेषजं चतस्य अनर्थतावत् श्रनर्थक्यवत् । अत्रैवार्थे आबालप्रसिद्धमपरमपि दृष्टांतमाह दीपेत्यादि - दीपानर्थक्यमिव । क्क व्यपगततिमिरे देशे दृश्यमाने समस्ते वस्तुजाते ॥ ८ ॥
तासम्पत्समेता विविधनयतपःसंयमज्ञानदृष्टि - चर्यासिद्धाः समन्तात्प्रविततयशसो विश्वदेवाधिदेवाः । भूता भव्या भवंतः सकलजगति ये स्तूयमाना विशिष्टै— स्तान्सर्वान्नम्यनंतान्निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ||९||
For Private And Personal Use Only
टीका - तामित्यादि । तादृशामनंतज्ञानादिगुणानां संपदा समेता युक्ताः । नया नैगमादयः, तपांसि अनशनादीनि द्वादशविधानि