________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
स्फुटार्थे । मूर्तिः रूपरसगंधस्पर्शशब्दात्मिका सा यस्य न विद्यते ऽ सावमूर्तिः । 'अमूर्त' इति च कचित्पाठः । तत्रोक्तरूपा मूर्तिरस्यास्तीतिमूर्तो न मूर्ती अमूर्तः । एवंविधस्यात्मनो यत्सौख्यं वर्तते तस्य न कश्चिदियत्ता. मवधारयितु समर्थ इति दर्शयन् शुदित्याद्याह-तुश्च तृष्णा च श्वासश्च कासश्च ज्वरश्च मरणं च जरा चानिष्टयोगश्च प्रकृष्टो मोहः प्रमोहश्च विविधा आपत् आपत्तिापत्तिश्च ता आदिर्येषां तानि च तान्युप्राणि रौद्राणि दुःखानि च तानि प्रभवन्ति यस्मात्स चासौ भवश्च संसारश्च तस्य हतेः हननाद्वा को न कश्चिदस्य एतस्य सौख्यस्य माता इयत्तावबोधकः ॥६॥
किंविशिष्टं तत्सौख्यमित्याहआत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालं
वृद्धि हासव्यपेतं विषयविरहितं निष्प्रतिद्वन्द्वभावम् । अन्यद्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्वकालं
उत्कृष्टानंतसारं परमसुखमतस्तस्य सिद्धस्य जातम् ॥७॥ __टीका-आत्मेत्यादि।श्रात्मैवोपादानंतस्मात्सिद्ध,नप्रकृत्युपादानं, नापि नित्यं । स्वयमतिशयवत्परमातिशयं प्राप्तं । वीतबाधं बाधारहितं । विशालं विस्तीर्णं सर्वात्मप्रदेशव्यापीत्यर्थः। वृद्धिरुत्कर्षो ह्रासोऽपकर्षः ताभ्यां व्यपेतं तौ वा व्यपेतौ यस्य । विषयविरहितं संसारिकसुखवद्विषयोत्थं न भवति । प्रतिद्वंद्वन प्रत्यनीकरूपेण भवनं प्रतिद्वद्वभावः दुःखं तस्मानिष्क्रांतं निष्प्रतिद्वंद्वभावं। अन्यच्च तद् द्रव्यं च सद्व द्यादिकर्म दिव्यं स्रग्वनितादि चंदनादि च तन्नापेक्षत इत्यन्यद्रव्यानपेक्षं । उपमाया निष्क्रांतं निरुपमं । अमितं अनंतं । शाश्वतमविनश्वरं । सर्वः कृत्स्नो निरवशेषः कालो यस्य । अत्र हेतुहेतुमद्भावो द्रष्टव्यो यत एव शाश्वतं तत एव सर्वकाल । उत्कृष्टः परमप्रकर्षप्राप्तः अनन्तो निरवधिः सारो
For Private And Personal Use Only