SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५६ www.kobatirth.org किया-कलापे Acharya Shri Kailassagarsuri Gyanmandir जानन्पश्यन्समस्तं सममनुपरतं सम्प्रहृष्यन्वितन्वन् धुन्वन्ध्वान्तं नितांतं निचितमनुसमं प्रीणयन्नीशभावम् । कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा आत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयम्भूः प्रवृत्तः ॥ ४ ॥ I टीका -- जानन्नित्यादि । जानन्पश्यन् । किं तत् ? समस्तं - लोकालोकं । कथं? तमं युगपत् । किं कदाचिन्नेत्याह अनुपरतं- निरंतरं । संप्रतृप्यन्सम्यक्तृप्ति व्रजन् वितन्वन्- अनंतं कालं व्याप्नुवन् । धुन्वन् निराकुर्वन् । किं तत् ? ध्वान्तं मोहरूपं तमः । नितांतं निरवशेषं अत्यर्थेन वा । निचितमुपार्जितं निबिडं वा । अनुसभं सभामनु । प्रीणयन्नमृतोपमैर्वचो - भिराप्यायन् । ईशभावं -- प्रभुत्वं कुर्वन् । सर्वप्रजानां मध्ये अपरं ज्योतिरीश्वरादिज्ञानमादित्यादिप्रकाशं च केवलज्ञानेन देहदीप्त्या वाभिभवन् - तिरस्कुर्वन् । असौ ज्ञाता द्रष्टेत्यादि प्राक् प्रसाधितस्वभाव आत्मा, आत्मानं स्वस्वरूपं । आत्मन्येव - स्वस्वरूपे एव न पररूपे । आत्मनास्वस्वरूपेण । क्षणं-प्रतिक्षणं । उपजनयन् निमग्नं कुर्वन । स्वयं परोपदेशनिरपेक्षतया मोक्षमार्गमवबुध्य अनुष्ठाय च अनन्तज्ञानादिरूपेण भवतीति स्वयंभूः, प्रवृतः - संपन्नः ॥ ४ ॥ छिंदन्शेषानशेषान्निगलबल कलींस्तैरनंत स्वभावैः सूक्ष्मत्वाग्रयावगाहागुरुलघुकगुणैः क्षायिकैः शोभमानः । अन्यैश्वान्यव्यपोहप्रवण विषय संप्राप्तिलब्धिप्रभावै रूर्ध्वं ब्रज्यास्वभावात्समयमुपगतो धाम्नि संतिष्ठतेऽन्ये ॥५॥ टीका --छिंदन्नित्यादि । योसौ स्वयंभूः प्रवृत्तः आत्मा स धाग्नि संतिष्ठते इति संबंधः । किं कुर्वन् ? छिंदन विदारयन् । कान् ? निगलबल - कलीन् निगलवद्बलं सामर्थ्यं येषां ते निगलबलाः ते च ते कलयश्च कल्यं ते मूलोत्तरप्रकृतिभेदेन संख्यायंते इति कलयः कर्मप्रकृतिविशेषास्तान | For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy