SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धभक्तिः । १५५ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm यामिति प्रत्यभिज्ञानादात्मनो ध्रौव्यप्रतीतेः । पुनरपि कथंभूतोसावित्याह स्वेत्यादि--स्वे आत्मीयास्ते च ते ज्ञानादिगुणाश्च तैयुतो ज्ञानाद्यात्मक इत्यर्थः । इतोऽस्मात्प्रकारादन्यथा स्वगुणात्मकत्वाभावप्रकारेण न साध्यसिद्धिः स्वरूपोपलब्धिरूपा ॥२॥ स स्वन्तर्वाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्या संपद्धेतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः । कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्यसम्यक्त्वलब्धि ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुत समानः ॥३॥ टीका-सत्वतंबर्बाध त्यादि।स पुनरात्माभासमानः स्वयंभूःसंपन्न इति संबंधः । कैरसौ भासमानो? वक्ष्यमाणगुणैः। किंविशिष्टैरित्याह अन्तर्वार त्यादि अन्तरभ्यन्तरो हेतुर्दर्शनमोहादेः क्षयोपशमादिः, बाह्यो हेतुर्गु: रूपदेशादिः ताभ्यां प्रभवो यासां ताश्च ता विगतमलाश्च ताः सत्यशोभनाश्च दर्शनज्ञानचर्याश्च सम्यग्दर्शनज्ञानचारित्राणीत्यर्थः, तासां संपत् संपत्तिः सैव हेतिः प्रहरणं तया प्रकृष्टो निमू लोन्मूलनसमर्था घातः तेन क्षता निर्मूलता चासौ दुरितता च घातिकर्मचतुष्टयता तया व्यंजितः प्रकटीकृतोऽचिन्त्यः सारो माहात्म्यं येषां तैः । कैरित्याह कैवल्येत्यादि-- ज्ञानं च दृष्टिश्च ज्ञानदृष्टी कैवल्ये च ते ज्ञानदृष्टी च ते च प्रवरसुखंच महावीर्यं च सम्यक्त्वंच। लब्धिशब्देन नवकेवललब्धीनां मध्ये दानलाभभोगोपभोगचारिजलक्षणाश्चतस्रो लब्धयो गृह्यन्ते अन्यासां स्वरूपेणै. वोपात्तत्वात् । लब्धयश्च ज्योतिश्च भामंडलं वातायनं च चामरं आदिशब्दाच्छत्रत्रयादिपरिग्रहः तान्येव स्थिराः शाश्वताः परमा अन्यजनासंभविनो गुणा घातिक्षयजा देवोपनीताश्च धर्माः । कथंभूतैस्तैरद्भुतैरचिन्त्यैः ॥३॥ किं कुर्वन्नसौ स्वयंभूः प्रवृत्त इत्याह For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy