________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
घटनात् । न हि कश्चित्सर्वथा आत्मविनाशाय आत्मगुणप्रध्वंसाय वा व्रतमनुतिष्ठति । आत्मनो दुर्गतिरक्षणार्थं गुणोत्कर्षार्थं च तदनुष्ठानप्रतीतेः। तथात्मन एवाभावात्कस्यासौ सिद्धिः स्यादिति चार्वाकः अत्राह अस्त्यात्मेति । किंविशिष्टः ? अनादिबद्धः न विद्यते आदिरस्येत्यनादिः । अनेन गर्भादिमरणपर्यंतता तस्य निरस्ता । अनादिश्चासौ बद्धश्चेति । यदि वा न विद्यते आदिः अस्येत्यनादिः कर्मसन्तानोऽनादिना बद्धः अनादिबद्ध इत्यनेन प्रकृतिर्बध्यते प्रकृतिविमुच्यते आत्मा तु सदैव मुक्त इति ब्रुवाणः सांख्यः प्रत्युक्तः । पुनरप्यसौ विशेष्यते । स्वकृतजफलभुगिति-वेना. मना कृतं स्वकृतं तस्माज्जातं तच्च तत्फलं च तद्भुक्ते इति । अनेनापि कर्मणामकर्ता आत्मा तत्फलस्य भोक्तेति सांख्यमतं निरस्तम् । कथं तर्हि मुक्तोऽसौ स्यादित्यत्राह तदित्यादि-तस्य स्वकृ. तस्य कर्मणः फलोपभोगद्वारेण क्षयान्मोक्षं कृत्स्नकर्मप्रक्षयलक्षणं भजत इत्येवंशीलः । पुनरपि कथंभूतोसावित्याह ज्ञातेत्यादि-हाता द्रष्टा ज्ञानदर्शनोपयोगस्वभावः न पुनर्जडश्चैतन्यमात्रस्वरूपो वा । पुनरपि किंविशिष्टः ? स्वदेहप्रमितिः-स्वदेहस्यैव प्रमितिः परिमाणं यस्यासौ स्वदेहप्रमितिरित्यनेन सांख्यमीमांसकयोगकल्पितमात्मनो व्यापित्वं प्रत्युक्तं, यदि स्वदेहप्रमितिरसौ कथं हस्तिशरीरपरिमाणः सन् कुथुशरीरपरिमाणः स्यादित्याह उपसमेत्यादि-स्वोपात्तकर्मवशात्स्वप्रदेशानामुपसमाहरणं संकोचनं उपसमाहारः तद्वशात्तेषां विस्तरणं विसर्पणं विस्तारस्तौ धर्मों यस्यासौ तद्धर्मा प्रदीपवत् । यथा प्रदीपो महदल्पभाजनप्रच्छादितः प्रदेशसंहरणोपसर्पणवशात्तद् व्याप्नोति एवमात्माऽपि महदणुशरीरमिति । पुनरपि कीदृशोसावित्याह ध्रौव्येत्यादि-धौव्योत्पत्तिव्ययो आत्मा स्वभावो यस्यासौ तदात्मेत्यनेन सर्वथा नित्यत्वादात्मन उत्पादव्ययाभाव इति वदंतः सांख्यमीमांसकयौगाः प्रत्युक्ताः सुखादिरूपतया आत्मन उत्पादविनाशप्रतीतेः । उत्पादविनाशस्वभावतैव ज्ञानमात्रस्वभावे आत्मनि न घौव्यरूपतेति बौद्धमतमप्यनेन प्रत्याख्यातं स एवाहं बालकुमाराद्यवस्था
For Private And Personal Use Only