SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धभक्तिः । १५३ रज्जुस्तेनाकर्षणमाकृष्टिस्तया तुष्टो हृष्टः । अथ का सिद्धिरित्याह सिद्धिरित्यादि-स्वस्य जीवस्यात्मा अनंतज्ञानादिस्वरूपं तस्योपलब्धिः प्राप्तिः सैवसिद्धिर्नान्या । कस्मादसौ भवति इत्याह, प्रगुणेत्यादि-प्रगुणा द्रव्यान्तरासाधारणा गुणा ज्ञानादयो धर्माः प्रकृष्टा वा यथार्थप्रकाशकत्वादयो गुणा धर्मा येषां प्रकृष्टो वा गुणो गुणाकारोऽनंतज्ञानलक्षणो येषां ते प्रगुणास्ते च ते गुणाश्च तेषां गणः संघातस्तमुच्छादयंति स्थगयन्ति इत्येवंशीलास्ते च ते दोषाश्च ज्ञानावरणादयस्तेषामपहारो निरासस्तस्मात्पूर्वोक्ता सिद्धिर्भवति । अमुमेवार्थ' दृष्टांतेन दृढयन्नाह योग्येत्यादि-योग्यानि उपकारकारकाणि तानि च तान्युपादानानि च धवनधापनादिकारणानि योजनं युक्तिस्तेषां युक्तिर्योग्योपादानयुक्तिस्तया । दृषदो धा. तुपाषाणादिह जगति यथा ऐन धवनधापनादिव्यापारतः किट्टकालि. कादिविवेकेन हेमभावोपलब्धिः सुवर्णसद्भावाप्तिरिति ॥१॥ नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिन युक्ते रस्त्यात्मानादिवद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी। ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः ॥२ टीका-नाभाव इत्यादि कैश्चिद्वौद्धवैशेषिकैरभावरूपा सिद्धिरभ्युपगता तस्याः प्रदीपनिर्वाणप्रख्यत्वाभ्युपगमात् । यथैव हि प्रदीपः स्नेहक्षयादिशं विदिशं वा गत्वा न तिष्ठति किंतु निमूलतो नश्यति एवं चित्तसंततेः क्लेश-क्षयादभावो भवति इत्यत्राह-नाभावः सिद्धिरिष्टा । न हि कश्चित् प्रेक्षापूर्वकारी आत्मविनाशाय प्रयतते । तर्हि बुद्धिसुखदुःखेच्छाद्वष. प्रयत्नधर्माधर्मसंस्कारलक्षणानां नवानामात्मविशेषगुणानां अत्यन्तोच्छेदः सिद्धिर्भवत्विति यौगास्तन्मतनिरासार्थमाह न निजगुणहतिरिति, सिद्धिरिति संबंधः । कुत एतदित्याह तदित्यादि-तेषां तपांसि तैर्न युक्तर २० For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy