SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे द्वित्रिचतुरिंद्रियाः प्राणा भूतास्ते तरवः स्मृताः। जीवाः पंचेंद्रियो ज्ञेयाः शेषाः सत्त्वाः प्रकीर्तिताः॥१॥ इति तेषां उवघादो-उपघातः पीडा, कदो वा कारिंदो वा कीरंतो का समणुमणिदो-कृतः, कारितः, क्रियमाणो वासमनुमतः । तस्स मिच्छा मे दुकडे-तस्योपघातस्य संबंधिनि दुक्कडे-दुष्कृते मिच्छा-निष्फलता मे भवतु । दुक्कडमिति च कचित्पाठः । तत्र तस्यैकेंद्रियाद्युपघातस्य संबंधि दुष्कृतं पापं मे मिथ्या निष्फलं भवत्यिति । सिहमक्तिः। (१) परापरसिद्धिस्वरूपसंपन्नान्परमेष्ठिनः सिद्धानित्यादिना स्तौतिसिद्धानुद्धतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान् वंदे सिद्धिप्रसिद्धय तदनुपमगुणप्रग्रहाकृष्टितुष्टः । सिद्धिः स्वात्मोपलब्धिःप्रगुणगुणगणोच्छादिदोषापहाराद्योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः ॥१॥ -मुग्धरा छंदः । टीका-सिद्धान्वंदे इत्यादि । सिद्धान-सदाकर्ममलैरस्पृष्टान् । अंजनगुटिकादिसिद्धानां च व्यवच्छेदार्थं उद्ध तकर्मप्रकृतिसमुदयानित्याह-कर्मणां प्रकृतयः स्वभावाः तासां समुदयः संघातः उद्धृ तो ध्वस्तः कर्मप्रकृतिसमुदयो यौस्ते तयोक्तास्तान । पुनरपि कथम्भूतानित्याह साधितात्मस्वभावान-साधित आत्मनः स्वभावोऽनंतज्ञानादिलक्षणं निजं स्वरूपं यैस्तान् । अनेन नित्यज्ञानाद्याधारतेश्वरस्य प्रत्युक्ता। किमर्थमित्थंभूतान्सिद्धान्वंदे इत्याह सिद्धिप्रसिद्धय-सिद्धः प्रसिद्धिः प्राप्तिस्तस्यै । किंविशिष्टः सन्नहं वंदे इत्याह तदनुपमेत्यादि-न विद्यते उपमा येषां ते अनुपमास्ते च ते गुणाश्च तद्नुपमगुणास्त एव प्रग्रहो For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy