SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईर्यापथ - विशुद्धिः । कर्म यस्य यस्माद्वा । दुश्चरियं दुष्टं चरितं यस्य यस्माद्वा । किंविशिष्टं नमस्कार मित्याह तस्सेत्यादि - तस्य प्रतिक्रमणस्य क्रियमाणस्योत्तरगुणं कृतदोषनिराकरणहेतुतया उत्कृष्टं, तस्स पायच्छित्तकरणं - तस्य विराधनाप्रभवदोषस्य प्रायश्चित्तकरणं प्रमाददोषपरिहारः प्रायश्चित्तं स क्रियते येन नमस्कारेण । तस्स विसोहिकरणं तस्य विराधनोपार्जितदुष्कृतस्य विसोहिकरणं विशुद्धिकारकं ईर्यापथोपार्जितकर्मणः क्षयकारकमित्यर्थः ॥ आलोचना १५१ इच्छामि मंते, आलोचेउं इरियावहियस्स । पुव्युत्तर दक्खिणपच्छिम चउदिसविदिसासु विहरमाणेण जुगंतर दिट्टिणा भव्वेण दहा | पमाददोसेण डवडवचरियाए पाणभूदजीवसत्ताणं उवघादो को वा कारिदो वा कीरंतो वा समणुमणिदो तस्स भिच्छा मेदुक्कडे | For Private And Personal Use Only टीका - इच्छामीत्यादि । भंते ! -- भगवन् इच्छामि कर्तुं । कां ? आलो. चनां निंदागहरूपा ह्यालोचना । तत्र कृतस्य दोषस्य आत्मसाक्षिकं हा दुष्टं कृतमित्यादि चेतसि परीभावनं निंदा, गुर्वादिसाक्षिकं तदेव गर्हेति । कस्यालोचना ? इरियावहियरस - ऐर्यापथिकस्य प्रमाददोषस्य । मार्गे गच्छता हि भव्येनेत्थं गन्तव्यमित्याह पुञ्युत्तरेत्यादि । पुल्वुत्तर-दक्खिणपच्छिम च उदिसविदिसासु - पूर्वोत्तरदक्षिणपश्चिमलक्षरणासु चतुर्दिक्षु तथा विदिक्षु, विहरमाणेण जुगंतरदिट्टिणा - चतुर्हस्तप्रमाणं युगं तदन्तर्गतदृष्टिना, भव्वेण -- भव्येन, दटुव्वा - द्रष्टव्या भवन्ति एकेन्द्रियादयो जीवाः । तत्र च पमाददोसे--प्रमाददोषेण । डवडवचरियाए - अतिरभसादूर्ध्वमुखस्येतस्ततो गमनं डवडवचर्या तया, पाणभूदजीवसत्ता-तत्र विकलेंद्रियाः प्राणाः, वनस्पतिकायिका भूताः, पंचेंद्रियाः जीवाः, पृथिव्यप्ते जोवायुकायिकाः सत्त्वाः । तदुक्तं -
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy