SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir ईर्यापथ-विशुद्धिः। उत्कृष्टाः सिद्धा-कृतकृत्याः । इत्थंभूता भगवंतो दितु-प्रयच्छन्तु । किं तदि. त्याह आरोग्गेत्यादि । आरोग्गणाणलाह-परिपूर्णज्ञानलाभं केवलज्ञानप्राप्तिमित्यर्थः । कथं आरोग्यं ज्ञानं उच्यते इति चेत् व्युत्पत्तितः । तथाहि-रोग इव रोगो ज्ञानावरणं ज्ञानस्वरूपोपघातकत्वात् । न विद्यते रोगोऽस्येत्यरोगं तस्य भाव आरोग्यं तेन युक्त ज्ञानं आरोग्यज्ञानं निखिलज्ञानावरणप्रक्षयप्रभवं ज्ञानमित्यथः । अथवा रोगो मिथ्यात्वं ज्ञानस्य विपर्ययहेतुतयोपपीडकत्वात् , तेन रहितं यद्विज्ञानपंचकं तदारोग्यज्ञानमिति ग्राह्यम् । समाहिं च-धयं शुलध्यानं च समाधिः चारित्रमित्यर्थः । बोहिं-बुध्यते यथावत्पदार्थस्वरूपं येन स ताबद्धोधिः सम्यग्दर्शनमित्यर्थः। रत्नत्रयलाभं मे प्रयच्छन्त्वित्यर्थः । चंदेहिं णिम्मलयरा-चंद्रेभ्यो निर्मलतराः प्रक्षीणाशेषावरणत्वात् । श्राइच्चेहिं अहियपहा-आदित्येभ्योऽधिकप्रभाः अन्तः सकललोकोद्योतकेवलज्ञानप्रभासमन्वितत्वात,बहिश्चासाधारणदेहदीप्तियुक्तत्वात् । सत्ताप्रशस्ताः परमोपशमप्राप्ता वा । अहियं पयासंता इति च क्वचित्पाठः। आदित्येभ्योऽधिकं यथा भवत्येवं पदार्थान्प्रकाशयन्तः। सायर इवगंभीरा-अलक्ष्यमाणगुणरत्नपरिमाणत्वात्,सिद्धा-परीतसंसारत्वात् । मममे स्तुतिकतु : सिद्धिं-सकलकर्मविप्रमोक्षं दिशंतु-प्रयच्छन्त्विति । ईर्यापथ-विशुद्धिः। पडिकमामि ! भंते इरियावहियाए विराहणाए अणागुत्ते, अइगमणे, णिग्गमणे, ठाणे, गमणे, चंकमणे, पाणुग्गमणे, बीजुग्गमणे, हरिदुग्गमणे, उच्चारपस्सवणखेलसिंहाणयवियडियपइहावणियाए, जे जीवा एइंदिया वा, बेइंदिया वा, तेइंदिया वा, चउरिंदिया वा, पंचिंदिया वा, णोल्लिदा वा, पेल्लिदा वा, संघटिदा वा, संघादिदा वा, उद्दाविदा वा, परिदा For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy