________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-किला
जिनाश्च, केवलिनश्च ते अनंतजिनाश्च । णरपवरलोयमहिए-नरप्रवराश्च ते लोकांश्च चक्रवर्त्यादयः तैः महिताः पूजिताः । यदि वा नरप्रवराश्च ते लोकमहिताश्चेति ग्राह्यम् । विहुयरयमले-रजसी, ज्ञानदृगावरणे श्रात्मस्व. रूपप्रच्छादकत्वात् त एवं मला विधूता रजोमला यैस्ते । महप्परणे-महः पूजा आपन्ना यैः अथवा महाप्रज्ञाः । ननु केवलज्ञानोपेतत्वात्तेषां कथं गतिज्ञानविशेषा प्रज्ञा स्यादित्ययुक्तं यतस्तदुपेतत्वेपि तेपां भूतपूर्वगत्या महाप्रज्ञत्वं दृष्टव्यम् ।
लोयस्सुज्जोययरे-केवलज्ञानेन लोकप्रकाशकान् । धम्मतित्थंकरेधर्मश्चारित्रं उत्तमक्षमादिश्च, तीर्थमागमस्तत्कृतवन्तः । तीर्थकरानेव स्तोतुमुद्यतो भवान् तदा मुण्डकेवलिनो भवतोऽबंद्याः प्राप्नुवंतीत्याशंकापनोदार्थमाह जिणे इत्यादि-जिनान् मुण्डकेवलिनो वन्दे, विहुयरयमले इत्यादि विशेषणचतुष्टयं अत्रापि संबंधनीयम् । इदानीं तीर्थकरान् स्तोप्ये इति संग्रहवाक्येन यत्प्रतिज्ञातं तत् अरहते इत्यादिना विवृणोति । अरहतेघातिकर्मक्षये अनंतज्ञानसंपन्नान् तार्थकृतः, कित्तिस्से-निजनिजनामोपेतानाणामपूर्वकं व्यावर्णयिष्ये। केवलिणो केवलज्ञानोपेतान् ,चउवीसं चेवइदानोंतनावसर्पिणीचतुर्थकालसेबंधिनश्चतुर्विंशतिसंख्योपेतानेव उसहमित्यादि नामोपलक्षितानहतः कीर्तयिष्यामि ।
स्वशक्त्या भक्त्या च स्तुतेभ्यः स्तावकः स्वात्मनः फलमभिलषन्नेवमित्यादिना आह-एवमुक्तप्रकारेण अशेषपापहारिभिः परस्परविलक्षणनामविशेषैरनुपमाचिन्त्यानंतगुणोपेताः मए-मया अभित्थुया-अभिष्टुता भगवंतः, विहुयरयमला-निरावरणा इत्यर्थः । पहीणजरगरणाप्रक्षीणजरमरणा मुक्ता इत्यर्थः । चउवीसंपि चतुर्विंशतिरपि । तित्थयरातीर्थकराः, जिणवरा-देशजिनेभ्य उत्कृष्टा मे म्तावकस्य पसीयंतु-प्रसन्ना भवंतु।
कित्तिय बंदिय महिया-कीर्तिता वाचा, वंदिता मनसा, महिताः पूजिताः कायेन एदे-एते चतुर्विंशतितीर्थकराः लोगुत्तमा-सकलजनेभ्य
For Private And Personal Use Only