SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे तुमाह--णाणाणमित्यादि ज्ञानदर्शनचारित्राणां सदा करोमि क्रियाकर्म । गुणनामानंत्यसंभवेऽपि रत्नत्रयस्य प्राधान्येन मोक्षोपायभूतत्वात्तदेव स्तुतं । करेमि भंते सामाइयं, सवसावज्जजोगं पञ्चक्खामि । जावजीवं तिविहेण मणसा, वचसा, कायेण ण करेमि, ण कारेमि, करतं पि ण समणुमणामि तस्स गते अइचारं पडिक्कमामि जिंदामि, गरहामि, जाव अरहताणं भयवंताणं पज्जुवासं करेमि तावकालं पावकम्म दुचरियं वोस्सरामि । __टीका-श्रहंदादीनां क्रियाकर्म कुर्वाणो भंते-भगवन् प्रथम तस्वावत्सामायिकं करोमि । किं पुनः सामायिक इति चेत् माध्यस्थ्य रागद्वषयोरभावः । तदुक्तं । जीवियमरणे लाहालाहे संजोगविप्पजोगे य। बंधुरिसुदुक्खादिसु समदा सामाइयं णाम ॥ १ ॥ ___ तं च कुर्वाणः सव्वं-सर्वमपि सावज्जजोग-अशुभमनोवाकायव्या. पारं पञ्चक्खामि-परित्यजामि । कथं १ जावजीव-जीवितपर्यन्तं । कथं? तिविहेण-तदेव त्रैविध्यं दर्शयति मणसा वचिया कायेणेति । कायेन तावत्स्वयं न करोमि, वचसा न कारयामि, मनसा अन्यं कुर्वन्तमपि सावद्ययोगं न समनुमन्ये । एवं वचसा मनसा च न करोमीत्यादि योज्यम् । तस्सेत्यादि--तस्य अहंदादिक्रियाकर्मणः संबंधिनमतीचारं दोषं भंते--भगवन् पडिक्कमामि निराकरोमि । कथं तत् पडिकमामि इत्याह णिंदामीत्यादि । कृतदोषस्यात्मसाक्षिकं हा दुष्टं कृतमिति चेतसि भावनं निंदा । गुर्वादिसाक्षिकं तदेव गर्हेत्युच्यते । न केवलं सावद्ययोगमेव प्रत्याख्यामि किन्तु जाव अरहंताणं-यावत्कालमहतां । भयवंताणं-भगवा ज्ञानवतां पूज्यानां वा, पज्जुवासं करेमि-विशुद्ध न मनसा भगवतोऽनुचिंतनं पर्युपासनं सेवांतत्करोमि, तावकालं-तावत्कालं, पावकम्म, पापं-अशुभं For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy