SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामायिक-दण्डकः । १४५ rammarwww सदा करोमि क्रियाकर्मेत्यनेनाभिसंबंधः । तत्र कीहक्स्वरूपाणां अर्हता सदा करोमि क्रियाकर्मत्याह-जावअरहताणमित्यादि। जाव-यावतां यत्परिमाणानामनाद्यनिधनकालप्रवृत्ताना, अरहंताणं-अर्हतां । भयवंताणं-भगवतां ज्ञानवतां पूज्यानां वा । अादियराणं-आदितीर्थप्रवर्तकानां । तित्थयराणं-तीर्थं श्रुतमर्हता उत्तमक्षमादिलक्षणो धर्मश्च संसारसागरोत्तरणहेतुत्वात्. तत्कृतवतां । जिणाणं-जिनानांअनेकविषमभवगहनव्यसनप्रापणहेतुकारात्युन्मूलकानां । जिणोत्तमाणं-देशजिनेभ्यो गणधरदेवादिभ्य उत्कृष्टानां । केवलियाणं-केवलज्ञानसम्पन्नानां । तथा जाव सिद्धाणं-यत्परिमाणानां सिद्धानां सदा क्रियाकर्म करोमि । कथंभूतानां ? बुद्धाणं-निखिलार्थज्ञानवतां । अनेन मुक्तात्मनां जडरूपता यौगोपकल्पिता प्रत्युत्ता । परिणिन्बुदाणं-परिनितानां सुखीभूतानामित्यर्थः । अनेन सांख्यैमुक्तस्य शुद्ध यच्चैतन्यमात्रमिष्टं तन्निरस्तं । अंतयडाणं-अशेषकर्मणां तत्प्रभवसंसारस्य चान्तं विनाशं कृतवतामित्यनेन सदा मुक्तत्वमीश्वरस्य निराकृतं । यदि वा एकैकस्य तीर्थकरस्य काले दश दश अंतकृतो भवंति तद्रूपाणां । ये हि दुर्द्ध रोपसर्ग प्राप्यांतमुहूर्तमध्ये घातिकर्मक्षयं कृत्वा केवलमुत्पाद्य शेषकर्मक्षयं च विधाय सिद्धयन्ति तेंतकृत इत्युच्यते । पारय. डाणं-संसारमहोदधेः पारं पर्यंतं कृतवतां । पारगयाणमिति पाठे पारंगतानां । तथा आचार्यादीनां यत्परिमाणानां सदा क्रियाकर्म करोमि । किंविशिष्टानां ? धम्माइरियाणं-धर्मश्चारित्रं 'चारित्तं खलु धन्मो' इत्यभिधानात् उत्तमक्षमादिरूपो वा तमाचरतां आचारयतां वा आचार्याणां । धम्मदेसयाणं-उपाध्यायानामित्यर्थः। धम्मणायगाणं-धर्मानुष्ठातणां सर्वसाधूनामित्यर्थः । कथंभूतानामेतेषां पंचानामित्याह--धम्मेत्यादि धम्मवरचाउरंगचकवट्टीणं-धर्म एव वरं चातुरंगस्वकार्यकरणे अप्रतिहतप्रसरत्वात् तस्य चक्रवर्तिनां स्वामिनां । देवाहिदेवाणं-देवानां चतुर्णिकायरूपाणां अधिदेवानां--वंद्यानामित्यर्थः। अथ गुणिनः स्तुत्वा गुणांस्तो १६ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy