SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामायिक-दण्डकः। १४३ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmm पंचधाचरन्त्याचारं शिष्यानाचारयंति च । सर्वशास्त्रविदो धीरास्तेत्राचार्याः प्रकीर्तिताः ॥शा ये स्वयं पंचाचारमाचरन्ति नान्यानाचारयन्त द्वादशांगादिशास्त्र तु शिष्यानध्यापयंति ते उपाध्यायाः । उपेत्य अधीयते मोक्षार्थं शास्त्र. मेतेभ्य इति व्युत्पत्तेः दिशंति द्वादशांगादिशास्त्र लोभादिवर्जिताः। स्वयं शुद्धव्रतोपेता उपाध्यायास्तु ते मताः ॥४॥ शिष्याणां दीक्षादिदानाध्यापनपराङ्मुखाः सकलकर्मोन्मूलनसमर्था मोक्षमार्गानुष्ठानपरा ये ते साधवः । सिद्धिं साधयंति साधयिष्यंतीति वा साधवः ये व्याख्याति न शास्त्र न ददति दीक्षादिकं च शिष्याणाम् । कर्मोन्मूलनशक्ता ध्यानरतास्तेत्र साधवो ज्ञयाः ॥ ५ ॥ सर्वशब्दः साधूनां विशेषणं, सर्वे च ते साधवश्चेति । तेषां अईदादीनां संबंधी नमो नमस्कारोऽस्तु । नमःशब्दयोगे चतुर्थी प्राप्नोतीति चेन्न प्राकृते चतुर्थ्या विधानासंभवात् । यदि वा पंचानामपि परमेष्ठिना लुप्तविभक्तिकः सर्वशब्दो लोकशब्दश्च विशेषणं । ततो णमो लोए सव्व अरहताणमित्यादिः संबंधः कर्तव्यः। नन्वहंदादयः संज्ञाभेदा: किं नानात्मनामेते संभवंति किं वा एकस्यापीति चेत् , अहंदादिलक्षणोपेतत्वे एकस्य नानात्मनां च तत्संज्ञाभेदाविरोधः । एकस्य तल्लक्षणभेदोऽपि कथं विरोधादिति चेन्नावस्थाभेद एकस्यापि तत्संभवाविरोधात तल्लक्षणभेदश्चोक्तः प्रागिति । __ चत्तारि मंगलं-अरहंत मंगलं, सिद्ध मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं । टीका-अर्हदादयश्चत्वारो भव्यानां मलगालनहेतुत्वात् मंगं सुखं तत्प्राप्तिहेतुत्वाद्वा मंगलम् । आचार्योपाध्याययोः पृथग्मंगलवप्रसङ्गा For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy