________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
नमोजिनाय ।
वृहद्भक्त्यध्यायस्तृतीयः ।
•NLOA
Acharya Shri Kailassagarsuri Gyanmandir
जिनेन्द्रमुन्मूलितकर्मबन्धं, प्रणम्य सन्मार्गकृतस्वरूपम् । अनन्तबोधादिभवं गुणौघ, क्रियाकलापं प्रकटं प्रवक्ष्ये ॥ १॥ सामायिक दण्डकः ।
णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥ टीका- रहननाद्रजोहनना द्रहस्याभावाच्च परिप्राप्तानंतचतुष्टयस्वरूपाः, शतेन्द्रादिविनिर्मितामतिशयवतीं पूजामईतीत्यतः - घातिक्षयजमनन्तशानादिचतुष्टयं विभूत्याढ्यम् । येषामस्त्यईन्तस्ते जिनेन्द्राः समुद्दिष्टाः ॥ १ ॥ विशिष्टशुक्लध्यान 'महोदयान्निखिलकर्मापाये सम्यक्त्वाद्यष्टगुणान्
साधितवन्तो ये ते सिद्धा:
शुक्लध्यानविशेषान्निरस्तनिःशेषकर्मसंघाताः 1 सम्यक्त्वादिगुणान्याः सिद्धाः सिद्धिं प्रयच्छन्तु ॥२॥
स्वयं पंचधाचारमाचरंति शिष्यांश्चाचारयंति ये ते आचार्या:
१- माहात्म्यान, इत्यपि पाठः ।
For Private And Personal Use Only