SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाश खण्डेन अन्येन विना अन्यः सन्न भवति असन् वा न भवतीत्यर्थः । [ १० ५३,२ ] कचिदशोभनः कचित् शोभनः । यथा - विना रजन्या कश्चन्द्रो विना चन्द्रेण का निशा । द्वितीयों यथा - 'अनयं विनेव राज्यश्रीः साध्वी योषिच चापलम् ॥ परिवृत्तिर्विनिमयो योऽर्थानां स्यात् परस्परम् ॥ (का० १११, उ० ) परिवृत्तिरलङ्कारः थथा लास्यं कमलवनानां दन्या दत्ते च सौरमं पवनः । तान्यपि मुदं जनेभ्यो ददति ततो लब्धदर्शनान्युचैः ॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । (का० ११४, १० ) तद्भाविकम्. उदाहरणम् - आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात् कुर्वे तवाकृतिम् ॥ काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ (० ११४, ७० अनिर्भिन्नगमीरत्वादन्तर्गृढधनव्यथः । पुटपाकप्रतीकाशी रामस्य करुणो रसः ॥ अत्र पुत्रर्द्धवाक्यार्थः पुटपाकप्रतीकाशे हेतुः । पदार्थता यथातं सन्तः श्रोतुमर्हन्ति सदसयक्तिहेतवः । अत्र सदसद्यक्तिहेतुत्वं श्रवणाईत्वे हेतुः । पर्यायोक्तं विना वाच्यं वाचकत्वेन यद्वचः । (का० ११५, ५० ), वाच्यतावच्छेदकं विना प्रकारान्तरेण वाच्यस्य अर्थस्य व्यञ्जनया यदभिधानं प्रतिपादनं तत्पर्यायेण भङ्गयन्तरेण कथनात् पर्यायोक्तम् । यथा - यं प्रेक्ष्य चिररुद्धाऽपि निवासग्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥ यं कृष्णं प्रेक्ष्य ऐरावणमुखे मदेन निवासमीतिरुज्झिता । इरेरिन्द्रस्य हृदये मानेनाइडारेण निवासप्रीतिस्त्यता । चिरकालं व्याप्य रूढोऽपि उपचिताऽपि । अत्रैरावणशकों मद-मानविमुक्तौ जातौ इति व्यङ्ग्यमपि शब्देन प्रकारान्तरेणोच्यते, तेन यदेवोच्यते तदेव व्ययमिति । यथा तु व्ययं तथा नोच्यते । १ मु.पु. 'परस्पर' स्थाने 'समासमः' इति पाठो खभ्यते ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy