________________
काव्यप्रकाश खण्डेन
अन्येन विना अन्यः सन्न भवति असन् वा न भवतीत्यर्थः । [ १० ५३,२ ] कचिदशोभनः कचित् शोभनः । यथा -
विना रजन्या कश्चन्द्रो विना चन्द्रेण का निशा ।
द्वितीयों यथा -
'अनयं विनेव राज्यश्रीः साध्वी योषिच चापलम् ॥ परिवृत्तिर्विनिमयो योऽर्थानां स्यात् परस्परम् ॥ (का० १११, उ० )
परिवृत्तिरलङ्कारः
थथा
लास्यं कमलवनानां दन्या दत्ते च सौरमं पवनः ।
तान्यपि मुदं जनेभ्यो ददति ततो लब्धदर्शनान्युचैः ॥
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । (का० ११४, १० ) तद्भाविकम्.
उदाहरणम् -
आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात् कुर्वे तवाकृतिम् ॥
काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ (० ११४, ७०
अनिर्भिन्नगमीरत्वादन्तर्गृढधनव्यथः । पुटपाकप्रतीकाशी रामस्य करुणो रसः ॥ अत्र पुत्रर्द्धवाक्यार्थः पुटपाकप्रतीकाशे हेतुः । पदार्थता यथातं सन्तः श्रोतुमर्हन्ति सदसयक्तिहेतवः ।
अत्र सदसद्यक्तिहेतुत्वं श्रवणाईत्वे हेतुः ।
पर्यायोक्तं विना वाच्यं वाचकत्वेन यद्वचः । (का० ११५, ५० ), वाच्यतावच्छेदकं विना प्रकारान्तरेण वाच्यस्य अर्थस्य व्यञ्जनया यदभिधानं प्रतिपादनं तत्पर्यायेण भङ्गयन्तरेण कथनात् पर्यायोक्तम् । यथा -
यं प्रेक्ष्य चिररुद्धाऽपि निवासग्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥
यं कृष्णं प्रेक्ष्य ऐरावणमुखे मदेन निवासमीतिरुज्झिता । इरेरिन्द्रस्य हृदये मानेनाइडारेण निवासप्रीतिस्त्यता । चिरकालं व्याप्य रूढोऽपि उपचिताऽपि । अत्रैरावणशकों मद-मानविमुक्तौ जातौ इति व्यङ्ग्यमपि शब्देन प्रकारान्तरेणोच्यते, तेन यदेवोच्यते तदेव व्ययमिति । यथा तु व्ययं तथा नोच्यते ।
१ मु.पु. 'परस्पर' स्थाने 'समासमः' इति पाठो खभ्यते ।