________________
काव्यप्रकाशखण्डन बैरिश्चं ब्रमसम्बन्धि वत्सरशतं व्याप्य साम्राज्यं उच्चैरत्यर्थ क्रियाः विदध्यादित्यर्थः । मानसमेव मानस सरः, कमलायाः लक्ष्म्याः संकोच एव कमलानामसंकोचः, दुर्गाणाममार्गणं [प. ४९.] एव दुर्गाणां मार्गणम् , समिता स्वीकार एवं समिधां खीकारः, सत्ये प्रीतिरेव सत्यामप्रीतिः, विजय एव पराभव एव विजयोऽर्जुन: - एवमारोपणनिमित्तो हंसादरारोपः । अपि शब्दालकार र समापि प्रशिहिलाबोहा। मेदभाजि यथा___ आलान जयकरिणा प्रतापतपनस्य पूर्वादिः । ।
सेतुर्विपत्तिजलधेर्धरणिभुजस्ते भुजो जयति ॥ हे राजन् ! ते तव भुजो बाहुः जयति । कीदृशः ? जयः परपराभव एव करी इस्ती, तस्सालानं बन्धनस्तम्भः । विपद्वारिधेः विपत्तिसमुद्रस्य दृषदा पाषाणानां सेतुः । प्रतापसूर्यस्य पूर्वाद्रिरुदयगिरिः । कीदृशस्य ते ? धरणी भुनक्तीति धरणीमुक् तस्य । अत्र जयादेमिन्नशब्दवाच्यस्य करित्वाद्यारोपे भुजस्यालानताबारोपो युज्यते । मालाऽपि पूर्ववद् बोध्या।
प्रकृतं यनिषिध्यान्यत् साध्यते सात्वपहुतिः। (वा. ९६, पू.) निषिध्य उपमेयमसत्यं कृत्वा । यथा --
स्फुटनीलोत्पलपटलं सुधामयूखे सुधासरसि ।
मन्यामहे नितम्बिनि ! नैप कलङ्कः परिस्फुरति ।। एवं भगवन्तरैरप्यूह्या ।
घोतयित्वा कमप्यर्थ गोपनीयं कथञ्चन । ___ यदि श्लेषेणान्यथा वान्यथयेत् सा त्वपङ्गुतिः ॥ यथा कालेऽस्मिन् जलदानामिति प्रागुक्तम् ।
श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत्॥ (का. ९६, उ०) यत्र शक्यभेदेन शब्दभेदः, तत्र शब्दश्लेषः । यथादर्शिते नानार्थे शिष्टे च । यत्रैकार्थः [ शक्यो ] अपरोऽथों निरूढलक्षणथा प्राप्यते तत्रार्थ श्लेषः । यथा -
उदयमयते दिङ्मालिन्य निराकुरुतेतरां
नयति नलिनी(निधन) निद्रामुद्रां प्रवर्तयति क्रिया (यां)। रचयतितरां खेराचारप्रवर्सनकर्तनं
बत वत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ विभाकरः सूर्यः राज्याभिषेककाले पुरोहितादिभिः तत्तुल्यत्वेन प्रतापरुद्रादिवत् संकेलितो नृपविशेषश्च । उदयं पूर्वाचलं संपदं च । दिशो मालिन्यं अन्धकारः दिश्याना जनानां कुवेकर वा । निद्रा मनःसंमीलनं निरुत्साहता [५० ४९. २ ] च । क्रियां गमनादिका सदाचार च । खैराचारोऽभिसारादि वेदानुलक्ष्य खेच्छाचरणं च । तेजसा रश्मीनां पुनः, मनागपि खावमाननाक्षमता च ।