SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अबचूण्युपेतः मुद्योतादिप्रकृतिचतुष्कस्य बन्धसम्भवात् । मिथ्यात्वे १०५, तदोघबन्धात्सप्तदशोत्तरशतरूपाद् यथोक्त१२ प्रकृतीनामपसारात् । सास्वादनादौ तु यथास्थित एकोत्तरशतादिकः स्वस्वौधबन्धः । 'अजिणे'त्यादिप्रथमलेश्यात्रिकस्य 'ओहे' [गा०२१] इत्यादिना निर्धारितत्वेनेमास्तेजःशुक्लपद्मलेश्या मिथ्यात्वे जिनाहारकद्विकवर्जाः शेषसप्तदशोत्तरशनप्रकृतिबन्धसहिता इत्यर्थः । [तेजोलेश्यादिषु मरकनवकाङ्नो य: सामान्यबन्धः प्रतिपादित: स मिथ्यात्वगुणस्थानके जिनादिप्रकृतित्रयरहितो विधेय:] ।।२२।। सव्वगुणभव्वसन्निसु ओह अभव्वा असन्नि मिच्छसमा। सासणि असन्नि सन्नि ब्व कम्मभंगो अणाहारे ॥२३॥ सव्वगुण० भव्यसंज्ञिनि च मार्गणास्थाने यथास्वस्थानं कर्मस्तवोक्त ओघबन्धस्तयोः सर्वगुणस्थानभावात् । अभव्या असंज्ञिनश्च चिन्त्यमाना ओघबन्धं प्रतीत्य मिथ्यात्वसत्कौघबन्धसमा:, अयमों→यथा मिथ्यात्वे ११७ ओघतो बध्यते, तथाऽभव्योऽसंज्ञी चौघतो मिथ्यात्वे च ११७, अभव्यस्य सास्वादनादिगुणाभावादसंज्ञी तु सास्वादने संज्ञिवत् १०१ बन्धकः । अनाहारके तु मार्गणस्थाने कार्मणकाययोगभगः, तद्योगस्थस्यैव संसारिणोऽनाहारकत्वात्, कार्मणभङ्गश्चायमुक्नयुक्त्या ओघे ११२, मिथ्यात्वे १०७, सास्वा० ९४, अविरते ७५, सयोगिनि सातस्यैक[स्य] बन्धः । उक्त मार्गणास्थानेषु बन्धस्वामित्वम् । तिसु दुसु सुक्काइ गुणा चउ सग तेर त्ति बंधसामित्तं । देविंदसूरिलिहियं नेयं कम्मत्ययं सोउं ॥२४॥ अथ यस्यां लेश्यायां यावन्नि गुणस्थानानि स्युस्तदाह → 'तिसु दुसु' तिसृष्वाद्यासु कृष्ण-नील-कापोतलेश्यासु 'चउ' इत्यादिना यथाक्रम सम्बन्धान्मिथ्यात्वादीनि चत्वारि गुणस्थानानि प्राप्यन्ते, तेषु परिणामविशेषतः षण्णामपि लेश्यानां भावात् । तथा 'दुसुति द्वयोस्तेज:पद्मयोमिथ्यात्वादीनि सप्त, तयोस्तदन्तमपि यावद्भावात् । शुक्लायां त्रयोदश मिथ्यात्वादीनि सयोग्यन्तानि । अयोगिनोडलेश्यत्वात् ।।२४॥ तविन्यस्वामित्वावचार
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy