________________
३४
तेषां निर्जितवादिराजिकुयशोजम्बालजालाविले भ्रान्त्वा भूवलयेऽखिलेऽध चलिता खं स्वर्गदण्डाध्वना। सान्ती आन्तिहतीच्छयेन्दुसरसि स्वैरं सुधाशीकरान् कीर्तिर्यान् विकिरत्यमी प्रतिनिशं दृश्या ग्रहादिच्छलात् ॥३७८।। यज्जाता हिमभूभत्तः पशुपतेः पत्नीति कः प्रत्ययस्तत्कीर्तिर्जनिताऽमुनेति तु सतां नूनं प्रतीतेः पयः । एषा यद्धवला हिमाऽपि जनयेद् म्लानि जवान वादिनां वक्राम्भोजगणेषु निर्दहति च प्रोदामदर्पद्रुमान् ॥३७९॥ ग्रन्थेषु येषु न परस्य धियां प्रवेशोऽप्येतेष्वनि प्रसरतीह तदीयबुद्धिः।
भायययपि तटाश्रितमन्यमधियः सोऽपि देत्यारेषणा किम नो ममन्ये ? ।।३८०॥ जगदुत्तरी हि तेषां नियमोऽवष्टम्भरोषविकथानाम् । आसनां मुक्तिरमा वदति चरित्रातिनैर्मल्यात् ॥३८१॥ सिद्धत्वात् सार्ववैद्यस्य ते सिद्धपुरुषोत्तमाः । तदाप्ततत्कणाः शिष्या यवशीकुर्वते जगत् ।।३८२॥ सर्वव्याकरणावदातहृदयाः साहित्यसत्यासवो गम्भीरागमदुग्धसिन्धुलहरीपानकपीतान्धयः ।। न्यायोज्योतिषनिस्तुषाः प्रदधतस्तर्केषु चाऽऽचार्यकं वादे तेऽत्र जयन्त्यशेषविदुषां यदर्पोष्मलान् ॥३८३।। उत्कल्लोलं दिशि दिशि बुधाः कर्णपात्रैः पिबन्तः स्फीतं गीतं सुकृतिततिभिस्तयश क्षीरपूरम् । तेषां शुद्धां चरणकमलां विभ्रतां श्रीगुरूणां सृष्टया स्रष्ट्रा जगदुपकृतं मन्यते सांप्रतं वै ॥३८४॥ परमेष्ठिमश्रतत्त्वाप्रायस्मरणेन देवतादेशैः। पारत्रिक्यैहिकीस्ते प्रायो जानन्ति कार्यगतीः ।।३८५॥ स्वदर्शने वा परदर्शनेषु वा ग्रन्थः स विद्यासु चतुर्दशस्वपि । समीक्ष्यते नैव सुदुर्गमेऽप्यहो ! यत्र प्रगल्भा न तदीपशेमुषी ॥३८६॥ या ज्ञानायुद्यमप्रौढिर्या च नित्याऽप्रमादिता । या चैषां स्मरणशक्तिः साऽन्यत्र भूपतेऽपि न ॥३८॥ चक्रुष्टीकाशलाका ते षड्दर्शनसमुच्चये । ज्ञाननेत्राअनायेव सत्ता तत्त्वार्थदर्शिनीम् ।।३८८॥ उद्धृत्य ये व्याकरणाम्बुराशितो विलोक्य बुद्धिप्रसरामराद्रिणी शुद्धक्रियारत्नसमुच्चयं सतामाश्चर्यभूतं विसुधालये ददुः ।।३८९।। लोकोत्तरां सच्चरणश्रियं मुदा सदा भजन्तत्र सरस्वती प्रियां दुष्कर्मदैत्यव्यथका जयन्तु ते गुरुप्रवेकाः पुरुषोत्तमाश्विरम् ॥३९॥ (युग्मम्)
- श्री मुनिसुन्दरसूरिविरचिता गुदली । ३ - श्रीगुणरत्नसूरीणां चासाधरणो नियमः । तदुक्तं- 'जगदुत्तरो हि तेषां नियमोऽवष्टंभरोषविकथानां,