SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः तब्बग्गे पुण जायइ णंताणंत लहु तं च तिक्खुत्तो । वम्गसु तह वि न त होइ णंतखेवे खिवसु छ इमे ॥८४॥ सिद्धा निगोयजीवा वणस्सई काल पुग्गला चेव । सवमलोगनहं पुण ति वग्गिउं केवलदुगम्मि ॥८५॥ खित्ते णंताणंतं हवेइ जिढं तु ववहरइ मज्झं । इय सुहमत्यलियारो लिहिलो देविंदमरीहिं ॥८६॥ तिव० तत्पूर्वोक्नं जघन्यमसंख्येयासंख्येयं त्रीन् वारान् वर्गयित्वैतान् दश क्षेपान् क्षिप, तथाहि→लोकाकाश १ धर्मारऽध, ३ कजीवप्रदेशाः ४, स्थितिबन्धाध्यवसाया: ५, अनुभागाध्यावसाया: ६, मनोवाक्कायवीर्यरूपयोगसत्कपलिच्छेदाः ७, उत्सर्पिण्यवसर्पिणीरूपसमाद्वयसत्कसमयाः ८, प्रत्येकमथिव्यादिजीवा: ९, निगोदाः सूक्ष्मबादरानन्तकायशरीररूपाः १० प्रत्येक सर्वेऽसंख्येयाः । एतान् दशापि पूर्वराशौ क्षिप्त्वा पुनस्तस्मिन् राशौ त्रिवर्गिते जघन्यं परीत्तानन्तकं भवति । अस्य राशेः पूर्वोक्तपञ्च[कदृष्टान्तेन परस्परताडनेऽभ्यासे कृते जघन्यं युक्तानन्तकं भवति, तावत्प्रमाणा एवाभव्या अपि । तस्य युक्तानन्तकस्य जघन्यस्य तद्गुणो वर्ग इति विधिना वर्ग कृते जघन्यमनन्तानन्तकं भवति । तच्च जधन्यमनन्तानन्तं वारत्रयं वार्यते, तथापि तत् स्तोकतया ज्येष्ठनन्तानन्तकं न भवति, अतस्तस्य त्रिवर्गितस्य मध्ये इमान् वक्ष्यमाणान षडनन्तक्षेपान् क्षिप, नथाहिएकेऽनन्तरूपाः सिद्धाः १, तथा सूक्ष्मबादररूपा निगोदजीवाः २, प्रत्येकानन्तरूपा वनस्पतिजीवा: ३, तथा काल: सर्बोऽप्यतीतानागतवर्तमानसमयराशिरूपः ४, पुद्गलाः परमाणवः ५, 'सन्चमलोगनह' ति उपलक्षणत्वात्सर्वं लोकालोकाकाशप्रदेशाग्रं च ६ एतान पडप्यनन्तान् तत्र क्षिप्त्वा पुनस्तत्सर्वं वारत्रयं वर्गयित्वा केवलज्ञानस्य केवलदर्शनस्य चानन्ये क्षिप्ते सति ज्येष्ठमनन्तानन्तं भवति । केवलमिदं भणितिमात्रमनेन व्यवहाराभावात् । मध्यं पुनर्व्यवहरनि, तेनैवानन्तबस्तूनां सर्वेषामपि व्यवह्रियमाणत्वात् ।।८१||८२।।८३||८४||८५||८६।। ITamana ॥ इति षडशीतिकावचूरिः ॥ कावचार॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy