SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्र० ५० ४ सू० १०२ - ११० ] महावृत्तिसहितम् ४१५ हिम्योर्मुनोः ||४|४|१०२|| रि भी इत्येतयोर्यो दनौ तयो भवति निमितात् । प्रहिणोति । प्रतिः । प्रमीणाति । प्रमीणीतः । एवीवयोः कृतयोः एकदेशविकृतस्यानन्यत्वारणत्वम् । आनि || ५|४|१०३॥ श्रानीत्येतस्य भोः परस्य णो भवति । श्रानिं प्रति गित्वाभावादिष्ट गिग्रहणं श्रादिमात्रोपलक्षणम् । प्रचपाणि । प्रापयाणि । श्रर्थवद्ग्रहणपरिभाषाऽर्थवत एष नेहरणादिह न भवति । प्रवृद्धा वा येषां तानि पानि मांसानि । आनीत्यविभक्तीको निर्देशः । I गोऽनितेः || ५|४|१०४ ॥ गेः परस्यानितकारस्य णो भवति । प्राणिति । पर्यगिति । श्रव्यवायेऽपि । पर्याणीत् । पुनग्रहणमपवादविषयेऽपि णत्वार्थम् । हे प्राण ? इति । कायन्तस्य चिः । " श्रन्तस्य " [५४११५] इति प्रतिषेधः प्राप्तः । दिपा निर्देशो यङ्गयन्तनिष्वत्यर्थः । सचयोभौ ||४|४|१०५ ॥ सचस्त्रानिते सभी नकारी विनम्येते । गेरिति वर्तते । प्राणिणिषति । पराणिणिषति ! पराणिगत् । अत्र द्वित्वे कृते चरूपेण व्यवधानाङ्कोर्नकारस्य न प्राप्नोतीत्येवमर्थं सूत्रम् उभौग्रहणं किमर्थम् ? याचता पूर्वकारस्य पूर्वसूत्रेण णत्वं सिद्धम् । घोस्त्वारम्भसामर्थ्यान्नकारस्य व्यवधानेऽपि भवि यति । नापि द्वितीयस्य णत्वमुच्यमानं पूर्वस्यापवादः । सचस्येति यस निर्देशात् । अन्यथा चादित्येवोच्येत । नियमार्थं भौग्रहणम्-गेरनन्तरमुभयोरेव त्वं न तृतीयस्य । प्राणिणिपयतेः लुङि कोच च कृते पुनः कचिद्विवे सति प्राणिणिनिषत् । ननु च "पूर्वश्रा सिद्धीयमद्विस्खे " इति वचनान् कृतणत्वस्य द्वित्वे सति उभयोर्णत्वं लभ्यत इति नार्थोऽनेनेति उभौ महणार्थं तर्हि सूत्र कर्तव्यम् । नत्र "पूर्वया सिद्धीयमद्विवे" इतीदं सर्वायम् अन्यथा श्रजिददित्यत्र त्वधत्वखानामसिद्धत्वाभावात् हूति इत्येतस्य द्वित्वं न स्यात् । हन्तेरधः || ५|४|१०६ ॥ श्रवर्तिस्व हन्तेर्नकारस्य णो भवति । गेरिति वर्तते । प्रहृष्यते । परिहणनम् । अन्तःशब्दस्य गिसञ्ज्ञोक्ता । श्रन्तर्ह एयते । श्रन्तनम् । उत्तरत्र वेति व्यवस्थितविभाषावलोकनात देशविषये न भवति । अन्तर्हेननो देशः । श्रव इति किम् ? प्रध्नन्ति । प्राधानि । “घनान्वर्धण" [२/३/६१] आदि सूत्रे अन्तर्धणादीनां निपातनारणत्वम् | अघ इति योगविभागात् । हन्तेरपूर्वस्यैव गुलम् । तेनेट् न भवति । वृत्रघ्नति । सञ्ज्ञायां " पूर्वपदाखावगः " [ ४७ ] इति णत्वं प्राप्तम् । ग्रसज्ञा " एकाजू चौगः [५४६] इति । " वा षोः ॥ ५२४ ९०७ ॥ मकारयकारयोः परतः हन्तेनैकारस्य वा भवं भवति । प्रहरवः । ग्रहन्वः | प्रहरमः | महन्मः । वाग्रहणं पूर्वविधीनां नित्यार्थम् । हृत्यचः || ५|४|१०८ || कृत्स्थो यो नकारः तस्याच उत्तरस्य णो भवति स चेन्नकारपशे भवति गियानिमित्तत । कृतीति नकारस्य विशेषणं नाचः । कृत्सच्शकाच्चाचः परस्य नकारस्य णवं भवतीत्यर्थः । प्रया. म् । प्रवणम् । प्रयायमाणम् । प्रयाणीयम् । श्रयान्ति ते नृप । प्रयादिणः । प्रहीणः । प्रहृोणवान | अन्तःशब्दस्य गित्वे अन्तर्याणम् । अन्तरयणम् । वेति व्यवस्थितविभाषाभिसम्बन्धादिह न भवति । अन्तरयनो देश इति । इहापि भवति । निर्विण्णः प्रान्नाजीदिति । च इति किम् ? प्रभुग्नः 1 शेर्पा ||४|४|१०६ ॥ एयन्तायो विहितः कृत्तस्थस्याच उत्तरस्य मकारस्य वा वं भवति । गेरिति वर्तते । प्रयापणम् | प्रापनम् । ननु प्रयाभ्यमाण इत्यत्र यता व्यवहितत्वात् कथं कृतो गत्वम् १ अङ्ग्व्यवाय इति वर्तते । एयन्ताद्विहितस्य कृतो व्यवायेऽपि णत्वं भविष्यति । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । हलश्चेजुङः ||५|४|११०॥ इजुङः सर्वस्य हलन्तत्वात् हृत्प्रहणमादिविशेषणम् 1 हजादेरिजुडो घोः परस्य कृति नकारस्य वा त्वं भवति गेर्निमित्तात् । प्रकोपणम् । प्रकोपनम् । प्रमोहणम् । प्रमोहनम् । “कृत्यचः [५/४१०८ ] इति नित्ये प्राप्ते विकल्पः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy