________________
सूरिविरचितः ]
श्रीमन्त्राधिराजकल्पः ।
॥ ११ ॥
॥
१२ ॥
बोध - प्रवाल सहिताः षडमूर्हि मुद्रा विद्रावणाय दुरितस्य सदा विदध्यात् बद्ध्वा वामभुजस्य तु मुष्टिं बद्ध्वा तु तर्जनीचक्रम् । सन्दर्शयेदमुष्य तु मुद्राऽसावङ्कुशाख्येति यन्मणिबन्धे पाणी सरल - प्रस्ताङ्गली बतौर्ध्वमुखौ । कुर्याद् यन्त्रस्याग्रे विधिविज्ञः कमलमुद्रेति ॥ १३ ॥ दक्षिणभुजेन वामा वामभुजेनापि दक्षिणा युगपत् । प्रसुताङ्गलिना ग्राह्या कलाचिका वज्रमुद्रेति क्षिप्वाङ्गष्टो मध्ये मीलितसरलाङ्गुलीत्रयो यत्र । चक्रिततर्जनिकावथ भुजौ विदध्यात् तु शङ्खमुद्रा सा ॥ १५ ॥ चक्रकनिष्ठानामा न्यस्ताङ्गुष्ठाप्रयोर्यदिह भुजयोः । सरलचले तर्जनिकामध्यमिके स्तः प्रवालमुद्रेति ॥ १६ ॥ तिस्रोऽङ्गलीस्तु सरलास्तर्जन्यङ्गुष्ठकौ च सम्मिलितौ । कुर्याद् यत्र प्रवचनबोधाख्या ज्ञानमुद्रा सा
॥ १४ ॥
२७५
॥ १७ ॥
इति मुद्राः ।
दृषत् प्रवालाम्बुज हेमपत्रजीवस्रजोऽङ्गष्ठमुखाङ्गलीभिः । मोक्षेऽभिचारे शमने वशे च आकर्षणे कर्मणि चालयेद्धि ॥१८॥
इति स्रजः ।
स्तम्भद्वेषाकर्षणपोषणशान्त्यादिवश्यमृतिकर्म ।
पूर्वादिकदिग्वदनः सुधीर्विदध्यात सदा सर्वम्
॥ १९ ॥
इति दिशः ।
उच्चाटनद्वेषणमारणानि चण्डद्यतौ वायुरवतैजसस्थे । शान्ति च पुष्टिं वशतां विबोधं चन्द्रे जलोवप्रवहे विदद्यात् ॥ २० ॥
इति नाडि ।