SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २७६ श्रीजैनस्तात्रसन्दोहे [श्रीसागरबन्द्रकाकोलूककपोतकङ्कतगरप्रेतालयास्थ्यंशुकक्षाराङ्गारकपालवालमहिषोष्ट्रश्वोत्थवालेयजाः । दन्तास्थ्य मृजचर्मकेशनिचया भद्रा च रिक्ता तिथि मन्देशार्कयमाग्निभं च मृतिकृत् योगादिरुच्चाटने ॥२१॥ मध्यापराण्हास्तमयं हराग्निरक्षोयमाशा हरितालराज्यः । .. निम्बार्कपत्राणि च धूंसकेशनिर्माल्यधलीतिलतैलभाषाः ॥२२॥ मषी च धत्तूरकपुष्पभूत द्रुशाल्मलीपिप्पलकीलकाद्याः । एतानि बीजानि बुधा भणन्ति विद्वेषणोच्चाटनमारणेषु ॥२३॥ कर्पूरचन्दनसुकुकमगन्धधूली प्रातर्निशाधर विपुष्यभमूलयोगात् । श्वेतांशुकं दधिमधुप्रभृति प्रकामं शान्त्यादि कर्मणि करोति ___ बुधोऽथ सिद्ध्यै ॥ २४॥ इति द्रव्यसमुदायः । विद्वेषणाकर्षणचालनेषु है। वौषडन्तं फडिति प्रयोज्यम् । वश्ये वषट वैरिवधे च घे घे स्वाहा स्वधा शान्तिकपौष्टिकेषु॥२५॥ इति रञ्जिकाः। उदयार्करक्तशशधरधूमहरिद्रासिता वर्णाः । आकृष्टिवश्यशान्तिकविद्वेषणरोधवधसमये ॥२६॥ मोहोषातरणिः प्रभाद्रुसरणिश्चिन्तामणिः प्राणिनां चिन्तातीतफलप्रदानकुशलः कल्पद्रुदावानलः । मानस्फूर्तिहरः सरोसृपवरप्रोद्यत्फणाडम्बरः पायात् पार्श्वजिनः समस्तमविनः पापेभपञ्चाननः ॥२७॥ कर्मषट्कम्षट कर्माण्यहमधुना विधिना वक्ष्ये परार्थबोधाय । मन्त्राधिराजसत्कान्यवबुध्य च विमलकल्पेभ्यः ॥२८॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy