SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सरिविरचितः ] श्रीमन्त्राधिराजकल्पः । पञ्चमः पटलः - स्फूर्जत्कर्मवनप्रभेदलवनः संसारमानाशनः प्रक्रीडन्मदनद्विषत्सु दमनः प्रोद्यन्मनोदामनः । मोहारेईननः सदा शमधनः प्रोत्फुल्लपद्मासनः श्रीमत्पार्श्वजिनस्तनोतु भविनः सर्वश्रियां नन्दिनः ॥१॥ षट्कर्ममर्मनिर्माणबीजान्यहमथ ब्रुवे । विज्ञायानल्पकल्पेभ्यो गुरुभ्योऽभ्यासतः स्वतः ॥२॥ दिनमध्ये षड ऋतवः षड् योगा दीपनादयः । षडासनानि षण मुद्रा सन्दिग्बीजानि रञ्जिकाः ॥ ३ ॥ षड् वर्णा मन्त्रषट्कं च प्रभावसदनं तथा । एतत् सर्व भणिष्यामि कर्मनिष्पत्तिहेतवे ॥ ४ ॥ द्वारम् । आदौ हि हेमन्तवसन्त सुक्षाः (उष्णाः) प्रावृट्शरच्छीत ऋतुः क्रमेण । एकैकशः स्याद् दशभिर्घटीभिरित्थं विचार्येह च कर्म कार्यम् ॥५॥ ___ उच्चाटनं जलऋतौ शिशिरे मतिं च । शान्ति शरद्यथ मधौ वशकर्मणेव । विद्वेषणं षड ऋतावथ लाभपुष्टी ... हेमन्तगे इति बुधाः सततं प्रकुर्युः ॥ ६ ॥ इति ऋतवः । साध्याभिधा प्रथमतस्तत एव मन्त्र - वर्णक्रमस्तदिति दीपनमत्र शान्त्यै । मन्त्रक्रमः प्रथमतोऽथ च साध्यनामा. ऽसौ पल्लवः प्रकटितः कलिहेतुरेव ॥ ७ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy