________________
२७२ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र
शमदामादमधीवा शमरसपीवा भवारिजनपामा । मोहान्धकारदीवा ध्यानदधिर्नन्दकैर्हि जिनः ॥ ५१॥
कृतप्रयोगेनायम् । श्रेयोवल्लिवनप्रकाशनधनः प्रह्वत्रिलोकीमन
श्चिन्ताकल्पतरुर्जगत्त्रयगुरुः पापद्रुमालीत्सरुः । कारुण्यैकनिधिः कृतागमविधिविध्वस्तदुःखाम्बुधि
दद्याच्छेकदयं सुखस्य निचयं वामेयदेवस्त्वयम् ॥५२॥ सद्गुहे कमला कलास्तु सकला देहेऽमलाः सिद्धयो
विस्फूर्जन्ति भजन्ति तं रुगचलाः सौभाग्यभाग्योदयः । तस्यारिप्रकरो करोत्यपि न किं रोषारुणोऽप्यप्रियं यस्यायं कमठे शठत्वरहितो वश्याय वश्यं गतः ॥ ५३ ॥ इति मण्डलमन्त्रोद्धार-विशेषध्यान
पूजन-जप-होमवर्णनचित्रस्तुतिवर्णनो नाम चतुर्थः पटलः ॥४॥
पं. १२७
-