________________
सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । २५९ अथ योजितकरकमलो मन्त्राधिपतिर्जिनाग्रतो ध्येयः । कमठो यन्त्रद्वारे कृतस्थितिारपाल इव ॥ १२३ ॥ अरुणरुचिः शुचिमहीरुहहारिश्च विहितपीनकोपीनः । उच्छिखपावककीलापिङ्गलकुन्तलजटाजूटः ॥ १२४ ॥ उन्नतललाटपट्टप्रकटितभृकुटी कठोरकृतदृष्टे ! । विहितविकटाट्टहासत्रासितजगतीत्रितयसत्व ! ॥ १२५ ॥ तर्जितसघनघनाघनगर्जितहुंकारस्यवधिकराल । जिनपतिसकरुणवाचः श्रवणोत्पन्नासमदयासुलय ! ॥१२६ ॥ जय कमठदुरितसन्ततिगजपतिभेनमृगपतितनूज ! । अहिपतिफणगणभूषण! जिनवरचरणाम्बुरुहपुष्पलिह ! ॥ १२७॥
कलापकम् । विगतमदैर्यशनावशतः सुगति विना वरचरणतपोभिः । सरसफला चमरकुलाविव शरणं कमठ ! जिनचरणौ ॥ १२८ ॥
इति कमठः॥ मन्त्राधिराजसज्जीविहितातिशयः सदाशयो जयति । श्रीपद्मदेवसूरिर्विख्यातो देवरिमूरिव ॥ १२९ ॥ प्रोद्यन्मार्तण्डबिम्बप्रतिमरुचिभरस्यास्य यन्त्रस्य विष्वक्
सर्वज्ञालोसुरेन्द्रासुरसुरयुवतीयक्षयक्षाङ्गनानाम् । सन्दोहैः सेवितस्य त्रिदशगिरिवनस्यावकासो वनाली
नीलामा भाति भूयो विबुधजनकृतानन्दकन्दप्रभेदाः ॥१३०॥ ..इति मन्त्राधिराजयन्त्रोद्धारस्तृतीयः पटलः । ग्रं० २१२ ॥