________________
श्रीजैन स्तोत्र सन्दोहे [ श्रीसागरचन्द्र
भसितत्रिनेत्रकदिगम्बरताभुजगास्थिरुषणच्छटापटलिः । वहतः शिवाश्रयसुतीनवपुर्भवतो भवस्य शिवनाभ भुवि ॥ ११३ ॥ विधिरच्छ्रवत् स्तुतिवचःसलिलैरभिवर्षति प्रतिजिनं यदिह । विमलीकरोति तदर्घं दुहितुः सुरताभिलाषजनिपङ्कमिव ॥ ११४ ॥ बलिधामसंस्थितिरभसं नमति स्तवसेवनं च नमनं नमितः । वदयन्त ईदृगतिसङ्गतिमन्निजवित्तमंत्र.... दति प्रकटाम् ॥ ११५ ॥ प्राच्यामिन्द्रो वन्हिराग्नेयकोणे याम्यासंस्थो दण्डपाणिस्ततोऽपि । रक्षोराजः स्याच्च नैऋत्यसंस्थो यादोनाथः पश्चिमाशा कृतास्थः ॥ ११६॥ वायव्यस्थो गन्धवाहस्तु यक्षः कौबेरोस्थो रुद्र ईशानसंस्थः । ब्रह्मा प्राच्यां पश्चिमायामनन्तो यं सेवन्ते लोकपाला दशामी ॥ ११७ ॥ इति लोकपालाः ।
२५८
दक्षिणतो धरणेन्द्रो बहुफणभृत् कनकवर्णतनुरत्र । जिनभक्तं जननिवहं हृदयस्थितजिनवरस्त्ववति ॥ ११८ ॥ वामे पद्मावत्यथ कज्जलकालद्युतिस्त्रिफणकलिता । सर्पाभरणा कुर्कुटसर्पगतिस्त्रिभुवनं त्ववति ॥ ११९ ॥ क्षेत्राधिपतिर्मण्डलयानो व्यालोलकुन्तलकरालः । विहितभुजङ्गममालः षट्पाणिः सेवतेऽत्र जिनम् ॥ १२० ॥
सितदीधितिसमवर्णे चामरजपमालिकावर फलाढचे ।
विमलालङ्कृतिवस्त्रे देव्यौ विजयाजये भवतः ॥ १२१ ॥ श्रीवामासुतभक्ते गजपतियाने करचतुष्कधरे । यन्त्रबहिःकोणगते एते दुरितालिमपहरतः ॥ १२२ ॥