SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ wwwwwww सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । २५७ ही शरीररहितोऽपि हिताय सिंहिकासुत इतोऽपि जिनेशम् । पश्यति प्रतिकलं कलभक्तिः स्यन्दनं तिमिरभो ह्यधिरूढः ॥१०३ देवदेवमभिवन्दति केतुः पातकाम्बुनिधिबन्धनसेतुः । खड्गपाणिरिह पादतलस्थश्चित्रवर्ण इव कल्मुषमालः ॥ १०४ ॥ ये जिनं निजमनस्युरुभक्तिव्यक्तरोमनिवहाङ्कुरसाराः। संवहन्ति विषमा अपि तेषां खेचरा मुदमिवेह वयस्याः ॥ १०५ ॥ इति ग्रहनवकम् । बहुनेत्रसम्भववपुर्भगतां शमितुं जिनेन्द्र ! चरणौ शरणम् । तव देवराडिव नवस्तवनं कुरुतेऽनिशं समभिगम्य मुदा ॥१०६ ॥ निजतापसम्पदभितः शमितुं तव सेवते चरणयुग्ममिव । अनलस्फुलिङ्गपटलाकुलितं वपुरुद्वहन्निह महःखचितम् ॥१०॥ बहुजन्तुघातततपातकतोऽञ्जननिभं महिषयानगतिः । वपुरुद्वहन्निव नवस्तवकृत् तव च दण्डपाणिरिह तच्छमितुम् ॥१०॥ सकलाम्बुदद्यतिरिव स्तुतिकृत् तव देव ! पादयुगलं नमति । तृकपालपाणिरिव रौद्ररसं शमितुं श्रितः प्रशमवारिनिधेः ॥१०९॥ निननाद ते जडपतिवरुणरश्चरणस्तुतिं बत जिनाऽयि कथम् ?। तव भक्तिरेव मुखरीकुरुते त्वथवा जनं जडमपीह विभो ! ॥११०॥ चपलकुरङ्गतराशुबलः पवनः स्मवन्नमति श्रयति । तव पादयुग्ममत एव जगत्तदशु स्वरूपमतदेव जिन ! ॥ १११ ॥ धनदोऽन्धकारचितिहिताश्रयतोऽस्यभवत् कुबेर इति नामयुतः । प्रमजन् पदे हि तव पुण्यनिधेर्विदितस्तु पुण्यजनराडिति सः॥११२॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy