________________
२५०
श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्र
भद्रासना हिमसमा वरजापमाला
पाणिः सुगन्धिरिह शूलफलाभ्युपेता। श्वेता मरालगमना सुममालिनी शं
दद्यादसिं वरफलं फलकं वहन्ती ॥ ६३ ॥ कुष्माण्डिनी कनककान्तिरिभारियाना
पाशाम्रलुम्बिसृणिसत्फलमावहन्ती । पुत्रद्वयं करकटीतटगं च नेमि
नाथक्रमाम्बुजयुगं शिवदा नमन्ती ॥ ६४ ॥ पभावती भुजगराजवधूर्विधूत
विघ्ना सुवर्णतनुकुर्कुटसर्पयाना। पाशाम्बुजाश्चितकरा त्रिफगाढयमौलि:
___ पायात् फलाङ्कुशविराजितवामपाणिः ॥ ६५ ॥ सिद्धार्थिका नवतमालदलालिनील
रुक् पुस्तिकाभयकरा नखरायुधाङ्का । वीणाफलाङ्कितभुजद्वितया हि भव्या
नव्याजिनेन्द्रपदपडन्कजबद्धभक्तिः ॥६६॥ श्रीअश्वसेनतनयं विनयावनम्रा
भ्यायन्ति ये स्वहृदये विगतान्यकृत्याः । यक्षाङ्गना जिनपतीनिव तान्नताङ्गयआराधयन्ति सततं दुरितं हरन्त्यः ॥ ६७॥ .
इति यक्षिण्यः ।