________________
श्रीजैनस्तोत्रसन्दोहे [श्रीसागरवन्द- . सद्बीजपूर,णिसङ्गतवामहस्ता
भूयादियं हि विजया विजयाय पुंसाम् ॥५२॥ देवी तुषारगिरिसोदरदेहकान्ति
र्दद्यात् सुखं शिखिगतिः सततं परीताः । जापनजं परमियं तु फलाभये तु
___ सम्बिभ्रती भुजचतुष्टयशोभमाना ॥ ५३ ॥ सा कालिका मधुकरोत्करतुल्यदेहा
पद्मासनासिवरपाशगयाम्यपाणिः । नागाङ्कशावितरपाणियुगे वहन्ती
सौख्यान्यसावसुभृतां विनता ददातु ॥ ५४ ॥ सम्मोहिनी कनकर वरपाशहस्ता
दद्यान्मुदं फलशृणी दधती कजस्था। श्यामा नृयानगतिकृद् वरबाणपाणि
श्वापाभयान्वितकराप्यथ मानसी च ॥ ५५ ॥ ज्वालाकरालवदना द्विरदेन्द्रयाना
दद्यात् सुखं वरमथो जपमालिकां च । पाशं शृणिं मम च पाणिचतुष्टयेन
ज्वालाभिधा च दधती किल मालिनीव ॥ ५६ ॥ पीता वराहगमना ह्यसिमुद्गराङ्का
भूयात् कुठारफलमृद् भृकुटिः सुखाय । चाण्डालिका हिमसमा वरजापमाला
युग्गोपतिश्च कलशाङ्कुशवामहस्ता ॥ ५७ ॥