SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरण रम्भादभाभवपुरेषकुमारयानौ यक्षः फलाभयपुरोगभुजः पुनातु । वचक्षदामयुतवामकरस्तु गात्रं पद्मप्रभक्रमगतः कुसुमाभिधानः ॥ ३१ ॥ दुर्वाङ्कुराकृतिरिभासनबद्धसंस्थो ब्रह्मद्रुबिल्वयुतदक्षिणपाणियुग्मः । मातङ्ग एष नकुलाङ्कुशवामहस्तो विनवजं हरतु नः सततं त्रिहस्तः ॥ ३२ ॥ हंसासनस्त्रिनयनो विजयो विनीलो दद्याज्जयं हि मम मुद्गरचक्रपाणिः । अतोऽजितः कमठगोऽभयमातुलिङ्ग पाणिस्तनुं नकुलकुन्तकरः पुनानु ॥ ३३ ॥ पीयूषदीधितिसितः कमलासनस्थो .. ब्रह्माभिधस्त्रिनयनोऽथ चतुर्मुखश्च । सन्मातुलिङ्गवरमुद्गरपाशपाणि र्जाप्यस्रगडुशगदानकुलाङ्कहस्तः ॥ ३४ ॥ पीयूषपानधवलो वृषयानयानो यक्षो ददातु सुखमीश्वरनामधेयः । पाणिद्वयीधृतगदाकलमातुलिङ्ग बन्चक्षदामयुतवामकरत्रिनेत्रः ॥ ३५ ॥ कुन्दधतिर्वरमरालगतिः कुमारो यक्षोऽथ दक्षिणभुजेषु फलैः प्रशस्यः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy