SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ हरिविरचितः] श्रीमन्त्राधिराजकल्यः । बिभ्रद् धनुः सनकुलं त्विह वामपाणि युम्मे ददातु सुखमेष चतुर्भुजश्च ।। ३६ ॥ चक्राक्षदामफलशक्तिभुजङ्गपाश खड्गाङ्कदक्षिणभुजः सितरुक् सुकेकी । चक्राङ्कुशाभयधनुः फलकोरगारि पाणिः श्रियं दिशतु षण्मुख एष यक्षः ॥ ३७॥ पद्मासनस्त्वरुणलक् त्रिमुखत्रिनेत्रः षट्पाणिरम्बुजकृपाणसुपाशपाणिः । पातालनामकलितः फलकाक्षमाला बभ्चङ्कवामभुजयुग् दुरितानि हन्तु ॥ ३८ ॥ कूर्मस्थितित्रिवदनोरुणरुक्शरीरः ___ सद्बीजपूरमभयं च गदां दधानः । याम्यैः करैर्नकुलपङ्कजजापमाला वामः करैर्हरतु किन्नर एष दुःखम् ॥ ३९ ॥ धाराधरघुतिकलः किरिवाहनस्थः सन्मातुलिङ्गजलजे भुजयोर्दधानः । वञ्चवक्षदामयुतवामकरो वराह: यक्षस्त्वयं मम सुखानि ददातु चषः ॥ ४० ॥ पानीयपूरभृतनीरदतुल्यदेहः - प्रत्यूहसञ्चयमभिधतु हंसयानः । । • गन्धर्व एष वरपाशभृदग्र्यपाणिः . सन्मातुलिङ्गशृणिवामकरो मदीयम् ॥ ११॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy